105

यस्य वस्तुनो नानारूपाणि विजातीयरूपाणि तत्र तद्रुपविवक्षावैचित्र्याच्छब्दचैचित्र्यं संगच्छत इति दोषत्वाभावः । एवं रूपता 48गमितवतीत्यादौ कदापि नास्तीतिदोषरूपतैषा । क्वचित्पुनरस्ति रूपान्तरमित्याह—क्वचिदिति । भवत्वेवम् । गुणत्वं तु कथमित्यत आह—निसर्गेति । नियतरूपविवक्षा हि महाकवीनां न लावण्यमनुसंधाय भवितुमर्हति । तथाहि—आक्षिपन्तीत्यादौ एषां दुष्करमित्यत्र खलर्थयोगे ‘न लोकाव्ययनिष्ठाखलर्थतुनाम्’ इत्यनेन षष्ठीप्रतिषेधादेषामिति कथं षष्ठीति दुष्टजातीयतामादाय शेषरूपविशेषविवक्षा समाधानहेतुः । अस्ति हि षष्ठ्यर्थस्य संबन्धस्य द्वरूप्यम्—संबन्धसामान्यं विशेषश्च जन्यजनकभावादिः । तत्र संबन्धविशेषविहितषष्ठीमुपादाय ‘न लोक—‘ इत्यादिना निषेधः । संबन्धसामान्यरूपमुपादाय षष्ठी केन वार्यते । अयमेव संबन्धः शेष इत्युच्यते । एवं तावन्न दोषत्वम् । यथा कोषसमग्राणां राज्ञां विपक्षश्रीहरमुपदिश्य यत्किमपि संबन्धिमात्रमेव न दुष्करं तथा पद्मानामिति समर्थयामहे । कथमन्यथा दुरापत्वद्वदनश्रीहरणमिति प्रकृतपोषलाभाद्गुणत्वमतिसुलभं तदेतव्द्याचष्टे—अत्रेति । ननु संबन्धमात्रविवक्षायां दोषता मा भूत्, गुणत्वं तु कथमिति यथोक्तमभिसंधाय परमतं लिखति—इदं हीति । शास्त्रमाहात्म्यं विधिनिषेधयोः परस्परासंकीर्णविषयत्वम् ॥

यत्नः संबन्धनिर्ज्ञानहेतुः कोऽपि कृतो यदि ।
क्रमलङ्घनमप्याहुर्न दोषं सूरयो यथा ॥ ११२ ॥
बन्धुत्यागस्तनुत्यागो देशत्याग इति त्रिषु ।
आद्यन्तावायतक्लेशौ मध्यमः क्षणिकज्वरः ॥

आद्यन्तौ मध्यम इति संबन्धनिर्ज्ञानहेतोर्विधानान्न शाब्दक्रमलङ्घनंदोषः । वक्तुश्च बन्धुत्यागदेशत्यागयोस्तनुत्यागाद्ग्रीयस्त्वेनाभिमतत्वादित्यर्थक्रमलङ्घनस्यापि गुणत्वम् ॥

यत्न इति । क्रमभ्रंशे हि यथाभिमतान्वयप्रतीतिप्रत्यूहो दूषकताबीजम् । तद्यदि कुतश्चिद्विशेषादस्खलितैव प्रतीतिरुपजायते तदा बीजाभावेन तथाभावो निवर्तत एव । स च विशेषः प्रतिपदमनुक्रमितुं न शक्यते इति कोऽपि यत्न इति सामान्येन प्रतिपादितम् । सोऽयं शब्दक्रमलङ्घनापवादः । अर्थक्रमलङ्घने त्वभि-

  1. शब्दहीनदोषोदाहरणभूते ‘नीरन्ध्रं गदितवति’ इत्यादौ