013 पर्यवसाययितुं न शक्यते । संशयं युगपद्विवक्षायामपि न विरोधः । इह तु स्तुतिनिन्दयोर्यौगपद्यमसंभावितमत एवैकस्य संभवे त्वपरस्य बाध एव । यथा—‘चिरकालपरिप्राप्तलोचनानन्ददायिनः । कान्ता कान्तस्य सहसा विदधाति गलग्रहम् ॥’ इति गलग्रहशब्दस्य कण्ठग्रहप्रतिद्वन्द्विन्यर्थे विवाक्षिते पूर्वप्रक्रान्तानन्ददायित्वं बाध्यते । अत्रानुत्तम इति बहुव्रीहितत्पुरुषाभ्यामपिहितमिति ‘वष्टि भागुरिः’ इत्यादिना विकल्पेनाकारलोपविधानात् । अपूर्वा इति पक्षान्तरेऽकारपूर्वाः । नियामकसद्भावे तु गुण एव । यथा—‘अपूर्व यद्वस्तु प्रथयति विना कारणकलाम्’ इति शब्दरूपान्तरमेव विरुद्धोपचायकमित्यन्वयव्यतिरेकाभ्यां शब्ददोषताव्यवस्थितिः ॥

अप्रयोजकमित्याहुरविशेषविधायकम् ॥ १३ ॥

यथा—

‘तमालश्यामलं क्षारमत्यच्छमतिफेनिलम् ।
फालेन लङ्घयामास हनूमानेष सागरम् ॥ १४ ॥’

अत्र तमालश्यामलमित्यादीनि सागरविशेषणानि तानि न हनूमतो लङ्घनेऽतिशयं सूचयन्ति ॥

अप्रयोजकमित्याहुरिति । तदेव हि कवीनामुपादेयं यद्वाक्यार्थे प्रकृष्टकाष्ठां पुष्णाति । अन्यथानङ्गाभिधानेऽवाच्यवचनमेव स्यात्सार्थकत्वादनन्वयत्वाच्च । न वृत्तपूरणमात्रप्रयोजनता नातिशयमिति । सागरलङ्घनद्वारा हनूमतः प्रकर्षो वाच्यः । न च तमालश्यामलत्वादिविशेषणानि कथंचित्प्रकर्षमर्पयन्ति यानि दूरत्वादीनि तथा न तेषामुपादानम् ॥

तद्देश्यमिति निर्दिष्टं यदव्युत्पत्तिमत्पदम् ।

यथा—

‘गल्लौ लावण्यतल्लौ ते लडहौ मडहौ भुजौ ।
नेत्रे वोसट्टकन्दोट्टमोट्टायितसखे सखि ॥ १५ ॥’

अत्र गल्लतल्लादयः शब्दा अव्युत्पत्तिमन्तो देश्या दृश्यन्ते ॥

तद्देश्यमिति । अव्युत्पत्तिमत् प्रकृतिप्रत्ययविभागशून्यं लोकमात्रप्रयुक्तं पद-