विरूपेति । विरूपो दुर्वचको विसंधिर्विगतं संहिताकार्यं दुर्वचके कलाविशेषरूपतयानुमते संहिताकार्यनियमः । द्वितीये कुत्रादूषणमित्याह—प्रगृह्यादाविति । प्रगृह्यं ‘ईदूदेव्द्दिवचनं प्रगृह्यम्’ इत्यादिना यत्र प्रगृह्यसंज्ञा विहिता, आदिग्रहणाद्विनापि प्रगृह्यसंज्ञया यत्र प्रकृतिभावविधानं तथोदाहरिष्यते । यत्र वा वक्तुः खेदादिना विच्छिद्य पाठे विरतिर्भवति । यथा—का एकशिरोरुहेति । तदेवं दुर्वचकप्रगृह्यादि यथासंख्यं विरूपविसंधिविगतसंधानयोरपवादकारणे इत्याह—अत्रेति । प्रयुज्यन्त इति प्रयुक्तयो दुर्वचकाश्च ताः प्रयुक्तयश्चेति दुर्वचकप्रयुक्तय इति कर्मधारयः । सुदुर्वचा इति अन्येनोच्चारयितुमशक्याः । स्वयमेव कविः प्रतिज्ञाय उत्तरार्धे दुर्वचकान्याह—अमेडित्यादि । हे नगेड्जे पर्वतराजपुत्रि, खमाकाशं भेड् भानां नक्षत्राणामीडीश्वरश्चन्द्रः सोऽविद्यमानो यत्र । तिरोधानादसत्कल्पना चन्द्रमसः । केन पुनस्तिरोधानमित्याकाङ्क्षायां द्वितीयं विशेषणम्—अपोग्रेति । अपगतोग्रदीप्तिर्भ उग्ररुचिरादित्यस्तदीयद्रोहकारिणोऽभ्रपदवाच्या मेघा यत्र । अप्सु रोहतीत्यब्रुट् पद्मं तद्वन्मुखं यस्या इति देवीसंबोधनम् । चेदीदृशं तर्हि सध्र्यङ् सहचरो भवास्माकमिति गौर्या उत्तरम् । कलारूपत्वेन विरूपसंधानस्य गुणत्वमित्याह—कलाविद्भिरादृतत्वादिति । कमले इवेत्यादावुदाहरणत्वान्नैकः श्लोकार्धः । पूर्वार्धे कमले इत्यादित्रितयं प्रगृह्यसंज्ञोदाहरणम् । उत्तरार्धे विनैव प्रगृह्यसंज्ञां प्रकृतिभावविधानं यत्र तत्त्रितयोदाहरणम् । तथाहि—अब्दऋताविति । ‘न ऋच’ इति च ‘ऋत्यकः’ इत्यनेन प्रकृतिभावः । यजूंपि ऊहस इति 'इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च’ इत्यनेन । अपरमादिपदग्राह्यं पूर्वमुदाहृतम् । अत्रापि स इति वोद्धव्यम् । तदेतच्छास्त्रानुमतमपि घटनासौष्टवेन निवेशनीयम् । न त्वन्यथा । उक्तं च पूर्वमेव यत्प्रगृह्यादिहेतुकमपि नासकृत्प्रयोक्तव्यमिति ॥