132 बिभर्तीति सामान्यालंकारे कथमन्यधर्ममन्यो वहतीति प्रतिसंधानसमसमयं वक्रक्लैब्यमस्येत्यन्तर्गतोपमाप्रकटीभावे उपमासमासपदयोरपि सा प्रतीयते इति सेयं कविचातुरीप्रतीयमानच्छायामेव पुष्णाति । तदिदमुक्तम्—प्रत्युतेति ॥

लोकातीत इवार्थे यः सोऽतिमात्र इहेष्यते ।
वार्तादौ तेन तुष्यन्ति विदग्धा नेतरे जनाः ॥ १४२ ॥
तच्च वार्ताभिधानेषु वर्णनास्वपि विद्यते ।
कान्तं जगति तत्कान्तं लौकिकार्थानुयायि यत् ॥ १४३ ॥
लौकिकार्थमतिक्रम्य प्रस्थानं यत्प्रवर्तते ।
तदत्युक्तिरिति प्रोक्तं गौडानां मनसो मुदे ॥ १४४ ॥

यथा—

‘देव धिष्ण्यभिवाराध्यमद्य प्रभृति नो गृहम् ।
युष्मत्पादरजःपातधौतनिःशेषकल्मषम् ॥ १८४ ॥’

अत्रातिमात्राख्ये दोषेऽपि वार्ताभिधानेऽभिधेयस्य कान्तिगुणस्या- भ्यनुज्ञानाद्गुणत्वम् ।

यथा वा—

‘अल्पं निर्मितमाकाशमनालोच्यैव वेधसा ।
इदमेवंविधं भावि भवत्याः स्तनजृम्भणम् ॥ १८५ ॥’

अत्रातिमात्रत्वेऽपि वर्णनार्थत्वाद्गुणत्वम् । अथानतिमात्रं कीदृक् ।

उच्यते—

वार्ते तावद्यथा—

‘गृहाणि नाम तान्येव तपोराशिर्भवादृशः ।
संभावयन्ति यान्येवं पावनैः पादपांसुभिः ॥ १८६ ॥’

अथ वर्णनायां यथा—

‘अनयोरनवद्याङ्गि स्तनयोर्जृम्भमाणयोः ।
अवकाशो न पर्याप्तस्तव बाहुलतान्तरे ॥ १८७ ॥’