133

लोकांतीत इति । ‘अनामये प्रियालापे वार्तं वार्ता च कीर्त्यते । वर्णनास्वपि’ इत्यादिपदविवरणं दृश्यते । कान्तमित्यभिसंबन्धः । लौकिकार्थानुयायि यज्जगति लोके कान्तमुच्यते तथाभूतमतिक्रम्य यत्कवीनां प्रस्थानं प्रवर्तते तदपि गौडानां मनसो मुदे प्रोक्तम् । शब्दाडम्बरात्मकगौडरीतिप्रियाणां विदग्धकामाज्ञापकं सद्गुणी भवतीति श्लोकार्थः । धिष्ण्यं गृहम् । ननु प्रियालापवर्णनयोरेवंविधा एव लोके काव्ये च वचनसंदर्भा इति नास्त्यतिमात्रतानतिमात्रतयोर्भेद इति पृच्छति—अथेति । सुगभमन्यत् ॥

परूषं निष्ठुरार्थं तु यदतीव विगर्हितम् ।
विरुद्धलक्षणाद्यासु तदुक्तिषु न दुष्यति ॥ १४५ ॥

यथा—

‘हालाहलं विषं भुङ्क्ष्व सखि मा तत्र विश्वसीः ।
यद्वा न दह्यसे काष्ठैः स्वल्पैस्त्वमिति मे मतिः ॥ १८८ ॥’

अत्र पारुष्येऽपि विरुद्धलक्षणयार्थान्तरस्य लक्षितत्वाद्गुणत्वम् ॥

परुषमिति । विरुद्धलक्षणा लौकिकी तस्या हि झटित्यभिधानाविनाभावादपरुषार्थप्रतीतेरभिधानतः पारुष्यं न दोषो लक्षणापरिग्रहेण च गुणत्वम् । तदाहुः—‘अभिधेयाविनाभावप्रतीतिर्लक्षणेति या । सैषा काव्ये दग्धवक्रा जीवितं वृत्तिरिष्यते ॥’ इति ।

अप्रस्तुतरसं प्राहुर्विरसं वस्तु सूरयः ।
अप्राधान्ये तदेष्टव्यं शिष्टैः स्याद्रसवस्तुनोः ॥ १४६ ॥

यथा—

‘क्षिप्तो हस्तावलग्न: प्रसभमभिहतोऽप्याददानोंऽशुकान्तं गृह्णन्केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण ।
आलिङ्गन्योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शांभवो वः शराग्निः ॥ १८९ ॥’

अत्र करुणे श्रृङ्गारस्याप्र101कृतत्वेऽपि शंभुप्रभाववर्णनाङ्गभूतत्वेन द्वयो- रप्यप्राधान्यादवैरस्येन गुणत्वम् ॥

  1. ‘स्तुतत्वे’ इति सटीकपुस्तकपाठः