139

अत्रापन्न: शत्रुरभियातव्य इति नीतिः, तच्च मानिनो ह्रिये भवती106तिविरुद्धमपि उद्धतपुरुषभाषितत्वान्न दुष्यतीति गुणत्वम् ।

अर्थशास्त्रेति । उद्धतपुरुषभाषितत्वादिति । पूर्वपक्षतया सिद्धान्तोपोद्धातत्वादित्यर्थः ॥

कामशास्त्रविरुद्धस्य यथा—

‘दोलातिप्रेरणत्रस्तवधूजनमुखोद्गतम् ।
कामिनां लयवैषम्याद्गेयं रागमवर्धयत् ॥ २०४ ॥’

अत्र त्रासतो लयवैषम्येण गेयस्य रागहेतुत्वेऽपि कामिनीमुखोद्गीर्णत्वाद्रागविवर्धनत्वेन गुणत्वम् ॥

कामशास्त्रेति । लयवैषम्यादिति गीतस्य कलाप्रकथनात्तस्य च विषमलयस्यारञ्जकत्वात्कथं रागवर्धनमिति दूषणं दोलागतागतत्रस्तकामिनीगीतप्रभावोक्तेश्चमत्कारित्वात्तिरोधीयत इति गुणभावं च नीयते । भावान्तरालवर्ती कामो लयः ॥

इत्थं गुणाश्च दोषाश्च काव्ये दोषगुणाश्च ये ।
आख्यातास्ते स्फुटं संप्रत्यलंकारान्प्रचक्ष्महे ॥ १५७ ॥

ननु गुणैरेव शब्दार्थयोः सनाथीकरणे किमलंकारविवेचनप्रयासेनेत्यत आह—

युवतेरिव रूपमङ्ग काव्यं स्वदते शुद्धगुणं तदप्यतीव ।
विहितप्रणयं निरन्तराभिः सदलंकारविकल्पकल्पनाभिः ॥ १५८ ॥

युवतेरिति । अङ्गेत्याक्षेपसंबोधने । अलंकारसाहित्यबुद्धिसंगतिः प्रणयः ॥

विकल्पो विशेषस्तर्हि किमुत्तरसिद्धौ पूर्वेणेति न्यायेन त्यज्यन्तां गुणा इत्यत आह—

यदि भवति वचश्च्युतं गुणेभ्यो वपुरिव यौवनबन्धमङ्गनायाः ।
अपि जनदयितानि दुर्भगत्वं नियतमलंकरणानि संश्रयन्ते ॥ १५९ ॥

यदि भवतीति । विवृतमेतत् ॥

  1. ‘तोऽति’ मूलपुस्तकपाठः