016

खेटक इति । अतृप्तः सुखस्येयत्तापरिच्छेदाभावात् । खेटके ग्रामे यद्भक्तं सूपश्चोत्पद्यते तस्य पत्तनस्य नगरस्य या वलभी तस्यां सुहितार्थयोगे षष्ठीनिषेधाल्लिङ्गादनुमीयते तृप्त्यर्थयोगे षष्ठी भवति । अन्ये तु व्याचक्षते—भक्तसूपपदनामा दक्षिणापथे विषयस्तत्सद्मनि खेटके वलभीनाम कस्यचिद्विरूपाक्षाधिष्ठानस्य तत्रैव पत्तनस्य हेहले इति स्त्रीणामव्याजमन्योन्यप्रेमातिशयगर्भस्य भाषितस्येति ॥

अशस्तार्थान्तरं यथा—

‘प्रवासयति या कान्तं वसन्ते गृहसंस्थितम् ।
विनाशपथदानेन पिशाची सा न चाङ्गना ॥ २० ॥’

अत्र प्रवासयति-संस्थितं-विनाशपथदानेन-पिशाचीपदानामशस्तार्थान्तरत्वम् ॥

प्रवासयतीति । शपथदानेन विना प्रवासयति अन्यत्र प्रहिणोति गृहे सम्यक् स्थितं प्रियं साङ्ना न, किं तु पिशाचीवदनुचितकारिणीत्यर्थोऽभिमतः । अन्यत्र प्रवासनमुच्चाटनं संस्थानं विनाशः विनाशस्य पन्थास्तस्य दानम् । पिशितमश्नातीति पिशाची । पृषोदरादित्वात् । तदेतव्द्याचष्टे—अत्र प्रवासयतीति ।

अशस्तस्मृतिहेतुर्यथा—

‘मारीचोऽयं मुनिर्यस्य कृत्या कालान्तकालये ।
पत्न्यां संक्रन्दनादीनां सुतानामाप्तयेऽभवन् ॥ २१ ॥’

अत्र मारीचकृत्या कालान्तक-संक्रन्दन-पदानामशस्तार्थस्मृतिहेतुत्वम् ॥

मारीचोऽयमिति । मरीचेरपत्यं मारीचः काश्यपः संक्रन्दनादीनिन्द्रादीन् द्वादश पुत्रानादित्यानुत्पादितवान् । तच्च कालान्तकस्य भगवतो महादेवस्यालये याः कृत्याः क्रिया भगवदाराधनरूपास्तासां फलमित्यर्थः । मारीचशब्दे मारकदेशः कृत्या इति सुबन्तपदे कृत्येत्येकदेशः, कालान्तकालय इत्यत्रान्तकेति, संक्रन्दने शब्दक्रन्दनेति ॥

पदमर्थ घृणावन्तं यदाहार्थान्तरं च यत् ।
घृणावत्स्मृतिहेतुर्यत्तद्धृणावदिह त्रिधा ॥ १७ ॥