पदं पदार्थश्चाभिन्नाविति । पदमभिन्नमभिन्नतात्पर्याभिधेयमिति विशेषः । तेन तात्पर्यभेदे लाटानुप्रासोऽभिधेयमेदे यमकं च न दोषः । पदार्थोऽभिन्नपर्यायशब्दोपात्त इति शेषः । तेन पूर्वस्माद्विशेषः । स्वाभिधेयतात्पर्यकपदावृत्तिः पर्यायोपादानं च द्वयमपि शब्दपुनरुक्तमिष्यते । तथा च पारमर्षं सूत्रम्—‘शब्दयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात्’ इति । युक्तं चैतत् । एकस्याभिधेयस्य द्विरभिधानं दोषः । तच्चाभिधानं तेनैव पदेन पर्यायेण वा संभवतीति शब्दमादायैव तस्य व्यवस्था पुनरुक्तिरत्रैव पदे भवति, तत्कोऽत्र मत्वर्थ इत्यत उक्तम्—यत्र तदिति । यत्र समुदायेऽवयवः पुनरुक्तरूपः स मतुबर्थः । अत एव नानापदनिरूपणीयतया 021 वाक्यदूषणमिति स्फुटोऽर्थः । विकल्पितं चेदं लक्षणमेकस्यैव दूषणधुरारोहणक्षमत्वात् । संक्षेपार्थं त्वेकमुदाहरणम् । अर्थमादायैव पुनरभिधानं पुनरुक्तमिति विभावयितुं लक्षणक्रमवैपरीत्येन प्रथममर्थपुनरुक्तमुदाहृतमित्याशयवान् । व्याख्यानेऽपि तमेव क्रममाद्रियमाण आह—अत्रोत्कानिति । उत्क उन्मनाः । उन्मनयन्तीति उन्मनसं कुर्वन्तीति णिचि इष्ठवद्भावे टिलोपे च रूपम् । अम्भोधरा इति विशेष्यपदम् । शेषाणि विशेषणानि—गम्भीरा मांसलाः, स्तनयित्नवः शब्दायमानाः, तडित्वन्तः प्रकृष्टतडिद्युक्ताः ॥