अस्थान इति । श्रव्यः पठिति विच्छेदो यतिर्विच्छिद्य विच्छिद्य पठ्यमाना भारती स्वदते । श्रव्यतोपलक्षणार्थं च द्विमुनिवेदादिसंज्ञया तत्र तत्र विविच्यते । तथा चास्ति कश्चिद्विशेषो येन क्रियमाणापि विरतिर्न सौभाग्यपदं पुष्यति । स च विशेषो नाम भागभेदोऽस्वरसंधिकृतश्च प्रायेण एतेषां स्वभावविशेषादेव स्थाने क्रियमाणापि विरतिरन्यत्रैव परं प्रकाशते । न तत्र कथंचन सौभाग्यमुन्मीलयति । स्थानपरिभाषया व्यावर्तितत्वात् । तदिदमुक्तम्—अस्थान इति । वामनोऽप्याह—‘विरसविरामं कष्टम्’ इति । सदो गृहरूपा सभा केतूदस्ताम्भोदं ध्वजदण्डोत्क्षिप्तजलधरमित्युच्चैस्त्वम्। ‘वेदच्छेदा शालिनी मोऽथ तौ गौ’ इत्युपलक्षणं श्रव्यरतेः । अत्र द्वितीयपादे धातुभागभेदः शेषपादत्रये नामभागभेदाः । न चात्र स्वरसंधानमस्तीति ॥