042

हीनमित्यादि । हीनमपकृष्टमसज्जातीयमुपमानमित्युपमानप्रसिद्धा विशेषा उपमेये प्रतिबिम्बकल्पाश्च प्रतीयन्त इत्युक्तम् । उत्कृष्टजातीयस्योपमेयस्य हीनजातीयेन सामान्यमभिधीयमानं शाब्दन्यायेन बोधयदनुचितमेव भवति । यथा—‘रणाश्वमेधे पशुतामुपागताः’ इति । नन्वत्र रूपकबलेन वर्णनीयस्य पशुतावगम्यत इति युक्तमनौचित्यम् । क्वचिदग्र इत्यादौ प्रकृतोदाहरणे तु कथम् । नह्यत्र प्रस्तुतोपश्लोकस्य सारमेयतावगम्यते अग्रे प्रसरणमाप्लुत्य निहननं च सादृश्यमुपात्तमुचितमेवेति नैतत् । तत्त्वप्रतिबिम्बे सादृश्यप्रतीतिरपि शब्देन क्रियमाणा लोके कान्तिं प्रति पुष्णाति । न हि कदापि हीनेन सादृश्योक्तौ वर्णना सजीवा प्रतीयते । प्रतीतिमात्रपरमार्थं च काव्यदर्शनमिति ॥

तदेव यस्मिन्नधिकं तद्भवेदधिकोपमम् ॥ ५१ ॥

यथा—

‘अयं पद्मासनासीनश्चकवाको विराजते ।
युगादौ भगवान्ब्रह्मा विनिर्मित्सुरिव प्रजाः ॥ ६१ ॥’

अत्र चक्रवाकस्य जगत्स्रष्ट्रा ब्रह्मणोपमितत्वादधिकोपममिदम् ॥

तदेवेति । हीनेनोत्कृष्टं यथा नोपमीयत इति लोकमर्यादा तथोत्कृष्टेन हीनम् । तथा हि—चक्रवाकोपमितिमनुसंदधतां विशेषावगतिविधुराणां च सहृदयानां प्रतीतिः स्खलन्ती जनयत्येव वैरस्यमिति सूक्ष्मेक्षिकया दूषणम् ॥

इदमपरमायातमनौचित्यं यत्सादृश्यबुध्द्या निबन्धेऽप्यसादृश्यपर्यवसानमित्याह—

4यत्त्वत्तुल्योपमानं तद्वदन्त्यसदृशोपमम् ।

यथा—

‘णमह हरं रोसाणलणिद्दद्धमुद्धमम्महसरीरम् ।
वित्थअणिअम्बणिग्गअगङ्गासोत्तं वं हिमवन्तम् ॥ ६२ ॥’
[नमत हरं रोषानलनिर्दग्धमुग्धमन्मथशरीरम् ।
विस्तृतनितम्बनिर्गतगङ्गास्रोतसमिव हिमवन्तम् ॥]

अत्र कोपानलनिर्दग्धमुग्धमन्मथशरीरस्य हरस्य नितम्बनिर्गतस्रोतसा हिमवद्गिरिणा सहासादृश्यादिदमसंदृशोपमम् ॥

  1. ‘यदतु’ इति मूलपुस्तकपाठः