हीनमित्यादि । हीनमपकृष्टमसज्जातीयमुपमानमित्युपमानप्रसिद्धा विशेषा उपमेये प्रतिबिम्बकल्पाश्च प्रतीयन्त इत्युक्तम् । उत्कृष्टजातीयस्योपमेयस्य हीनजातीयेन सामान्यमभिधीयमानं शाब्दन्यायेन बोधयदनुचितमेव भवति । यथा—‘रणाश्वमेधे पशुतामुपागताः’ इति । नन्वत्र रूपकबलेन वर्णनीयस्य पशुतावगम्यत इति युक्तमनौचित्यम् । क्वचिदग्र इत्यादौ प्रकृतोदाहरणे तु कथम् । नह्यत्र प्रस्तुतोपश्लोकस्य सारमेयतावगम्यते अग्रे प्रसरणमाप्लुत्य निहननं च सादृश्यमुपात्तमुचितमेवेति नैतत् । तत्त्वप्रतिबिम्बे सादृश्यप्रतीतिरपि शब्देन क्रियमाणा लोके कान्तिं प्रति पुष्णाति । न हि कदापि हीनेन सादृश्योक्तौ वर्णना सजीवा प्रतीयते । प्रतीतिमात्रपरमार्थं च काव्यदर्शनमिति ॥