044
[कोलाः खनन्ति मुस्ताः(न्), गृध्राः खादन्ति मृतकमांसानि ।
उलूका ध्नन्ति काकान्, काका उलूकानपि वायन्ति ॥

अत्र कोलादेः खरूपाद्यनभिधानाज्जात्याद्यलंकारासंभवे निरलंकारनामायं वाक्यार्थदोषः । सविशेषणाद्गोरपत्यमित्यादेर्वाक्यदोषाद्भिद्यते ॥

यदिति । वक्रताव्यतिरेकेऽलंकारसामान्यमेव न स्यदिति निरलंकारमित्युक्तम् । वायन्ति क्षिपन्ति खादन्ति । ‘वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु’ इति धात्वनुसारात् । नन्वस्ति कोलादिस्वरूपमत्र । ततो जात्यलंकारेण वक्रत्वमाक्षिप्यते । विशेषस्य च सामान्यमान्तरीयकत्वात्कथमुच्यते निरलंकारमित्यत आह—अत्रेति । स्वं रूपं चमत्कारकारि कविप्रतिभामात्रप्रकाशनीयं रूपं तदेवालंकारकक्षामधिशेते । न चात्र तथा किंचिदभिहितमतो न जात्यलंकारः । एवमन्योऽप्यलंकारो नास्ति । कथं तर्हि वक्रताभावरूपदीर्घपुच्छ इत्यादेः शब्ददोषाद्भिद्यते तदाह—सविशेषणादिति । तत्र विशेषणप्रयोगे शब्दानामेव वक्रताव्यतिरेकेणापवाद इति शब्ददूषणमिह तु न तथा । किं तूक्तमेव स्वरूपं न वक्रमिति वाक्यार्थ एव दुष्टः ॥

अश्लीलमिति निर्दिष्टमश्लीलार्थप्रतीतिकृत् ॥ ५३ ॥

यथा—

‘उद्यतस्य परं हन्तुं स्तब्धस्य विवरैषिणः ।
पतनं जायतेऽवश्यं कृच्छ्रेण पुनरुन्नतिः ॥ ६५ ॥’

अत्रोद्यतस्य परं हन्तुमिति संभोगारम्भविषया, स्तब्धस्य विवरैषिण इति वराङ्गविषया, पतनं जायतेऽवश्यमिति रेतोविसर्गविषया, कृच्छ्रेण पुनरुन्नतिरिति नष्टरागप्रत्यानयनविषया अश्लीलवाक्यार्थविषया प्रतीतिर्भवति ॥

अश्लीलमिति । उद्यतस्येति । परमन्यं हन्तुमुद्यतस्य विवरैषिण इति प्रमादकृतावधानस्य स्तब्धस्यात्मन्युत्कर्षाभिधानेनान्यानवधीरयतः पतनमावश्यकमुद्गमः कृच्छ्रादिति संसर्गोऽभिमतः । एषामेव पदार्थानां संसर्गान्तरमश्लीलमेवेत्याह—अत्रोद्यतस्येति । एतेन पददोषाद्भेद उक्तः ॥

देशकालादेः काव्याङ्गत्वात्तद्विरोधेनार्थो दुष्टः । विरोधश्च बाधः । स प्रमाणेनैव ततो लोकादिविरोधस्यालंकारसमयसिद्धस्य प्रमाणविरोधपर्यवसायित्वं विवक्षन्नाह—