047

अत्र पामरस्य पट्टांशुकोत्तरीयाभरणानौचित्याद् औचित्यविरुद्धमिदम् ॥

औचित्यविरुद्धमिति । औचित्यं योग्यता तस्य पराभृश्यमानस्य विवक्षितविपरीतपर्यवसानमन्योऽनुमानविरोधः । तथा हि—पट्टांशुकोत्तरीयेण पामरः पामर्या प्रोञ्छति । अतिगुरुककूरकुम्भीभरेण स्वेदार्द्रितं वदनमित्यत्र पूर्ववत्संबन्धग्राहकप्रमाणाभावः । कदाचिद्राजप्रसादादिना तथा संभवात् । किं तु पामरौचित्यप्रतिसंधाने पट्टांशुकावगुण्ठनमनुचितम् । विदग्धनेपथ्यपरिग्रहादिनागरवृत्तापरिचय एव पामरत्वम् । ततश्चायमर्थो भवति—पट्टांशुकसंबन्धायोग्येयं पामरत्वादिति । कूरं भक्तम् । कुम्भी कलशी ॥

प्रतिज्ञाविरुद्धं यथा—

‘यावज्जीवमहं मौनी ब्रह्मचारी च मे पिता ।
माता च मम वन्ध्यासीत्स्मराभोऽनुपमो भवान् ॥ ७१ ॥’

अत्र स्वयं वक्तुरेव ‘यावज्जीवमहं मौनी’ इत्यादिपदानामुक्त्या प्रतिज्ञाविरोधात्प्रतिज्ञाविरुद्धमिदम् ॥

प्रतिज्ञाविरुद्धमिति । अभ्युपगमवाक्यं प्रतिज्ञा । यथा—‘यद्यदादिशति स्वामी तत्करोम्यविचारयन्’ इति । साध्यनिर्देशश्च—‘अयं स रशनोत्कर्षी पीनस्तनविमर्दनः । नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः ॥’ इति । द्वयमपि प्रतिज्ञापदेनाभिमतम् । तत्राद्ये ‘यावज्जीवमहं मौनी’ इत्युदाहरणम् । अव्याहारो मौनम् । तदभ्युपगमवाक्येनैव बोध्यते । तथा हि—नायं मौनी वचनवत्त्वादित्यभ्युपगम्य मौनाभावपर्यवसन्नमिति तृतीयोऽयमनुमानविरोधः । द्वितीयपक्षकक्षीकरणेन चतुर्थोदाहरणे ‘ब्रह्मचारी च मे पिता, माता च मम वन्ध्या’ इति वक्ता यस्यौरसः सुतः स पितृपदेनाभिमतो न च तस्य ब्रह्मचारित्वं संभवति । माता जनन्येवाभिधीयते न च तस्या वन्ध्यात्वं संभवति । परस्परव्याघातो विरोधः । अयं च पञ्चमप्रकारो यद्व्यापकद्वारा विरोधः । यथा—स्मराभोऽनुपम इति । नहि स्मराभत्वं लोके प्रसिद्धं कितु स्मरतुल्यतां वदन् सोपमानत्वमभ्युपगच्छति । तच्चानुपमत्वेन विरुद्धम् । ततो व्यापकविरोधोऽयम् । यथा—वह्निरनुष्ण इति । आदिग्रहणाद्दृष्टान्तद्वारकोऽनुमानविरोधः संगृहीतः ॥