औचित्यविरुद्धमिति । औचित्यं योग्यता तस्य पराभृश्यमानस्य विवक्षितविपरीतपर्यवसानमन्योऽनुमानविरोधः । तथा हि—पट्टांशुकोत्तरीयेण पामरः पामर्या प्रोञ्छति । अतिगुरुककूरकुम्भीभरेण स्वेदार्द्रितं वदनमित्यत्र पूर्ववत्संबन्धग्राहकप्रमाणाभावः । कदाचिद्राजप्रसादादिना तथा संभवात् । किं तु पामरौचित्यप्रतिसंधाने पट्टांशुकावगुण्ठनमनुचितम् । विदग्धनेपथ्यपरिग्रहादिनागरवृत्तापरिचय एव पामरत्वम् । ततश्चायमर्थो भवति—पट्टांशुकसंबन्धायोग्येयं पामरत्वादिति । कूरं भक्तम् । कुम्भी कलशी ॥