नीलाब्जेति । पत्रदाने स्पर्धा व्यज्यते । सा च सादृश्यपर्यवसायिनीति प्रतीयमानोपमा । इभकुम्भपूर्वपक्षीकरणेन कुचाभोगस्य सिद्धान्तभावोऽवगम्यते । तथा च व्यतिरेको ध्वनितः । अनुवादेनाप्युपमा प्रतीयते दूषणेन व्यतिरेक इति प्रकृतपर्यवसाने समासोक्त्या यत्र दानादीनां विद्वद्वादिप्रसिद्धानां शब्दानभिधेय एव क्रम उपाधिभूतो ग्रथित इत्युदाहरणव्याख्यानग्रन्थार्थः ॥