199

तदेव मध्ययमकं यथा—

‘दधतमाकरिभिः करिभिः क्षतैः समवतारसमैरसमैस्तटैः ।
विविधकामहिता महिताम्भसः स्फुटसरोजवना जवना नदीः ॥ ९३ ॥’

आकरिभिः प्रशस्ताकरयुक्तैः करिभिः परिणतिक्रीडासक्तैः । विविधेभ्यः कामेभ्यो हिताः । महितं पूजितम् । जवना वेगवतीः ॥

तदेवमन्त्ययमकं यथा—

‘व्यथितसिन्धुमनीरशनैः शनैरमरलोकवधूजघनैर्घनैः ।
फणवताम भितो विततं ततं दयितरम्यलताबकुलैः कुलैः ॥ ९४ ॥’

अनीरशनैर्न निर्गता दूरीभूता रशनाः क्षुद्रघण्टिका येभ्यस्तैः काञ्चीगुणयुक्तैः । तेन स्थपुटकर्कशरत्नादिरचनया सिन्धुव्यथापोषः । शनैर्मन्दम् । घनैर्मांसलैः । अभितो विततं सर्वतो विस्तीर्णम् । फणवतां कुलैस्ततं व्याप्तम् । लवङ्गबकुलमालतीसुरभिशीतलतया फणभृत्प्रिंयत्वम् ॥

आदिमध्ययमकं यथा—

‘घनाघनाभस्य महीमहीयसः सुरासुराणां दयितस्य तस्य सा ।
धराधराकारगृहा गृहार्थिनो बभूव भूमेर्नगरी गरीयसीः ॥ ९५ ॥’

घनाघनो मेघस्तदाभः श्यामः । मही पृथिवी तस्यां महीयान् पूज्यः । धराधरः पर्वतस्तदाकारगृहाः ॥

आद्यन्तयमकं यथा—

‘द्रुतं द्रुतं वह्निसमागतं गतं महीमहीनद्युतिरोचितं चितम् ।
समं समन्तादपगोपुरं पुरं परैः परैरप्यनिराकृतं कृतम् ॥ ९६ ॥’

वह्निसमागतं सद् द्रुतं विलीनमत एव द्रुतं शीघ्रं महीं गतं पृथिव्यां विस्तीर्य पतितमहीनया द्युत्या रोचितं शोभितम् । चितं निबिडेन संनिवेशेन स्थापितम् । समन्तात्सर्वतः समं सलक्ष्मीकमस्थपुटं वा । परैः शत्रुभिः परैः श्रेष्ठैरनिराकृतं यदासीत्तदेव वह्निना हेममयं पुरमपगोपुरमपगतद्वारं महीं गतं च कृतमिति संबन्धः ॥