202

आमर्शनं प्रोञ्छनम् । दलत्कुवलयमिति क्रियाविशेषणम् । तरङ्गाणामितस्ततो चलनेन प्रौढतरकुवलयकलिकास्फुटनजातिः ॥

एवमावृत्त्याधिक्येऽप्यव्यपेतमुदाहार्यम् । यथा—

‘वियद्वियद्वृष्टिपरंपरं परं घनाघनाली रसितासिता सिता ।
सरःसरस्यः स्वरसारसारसा सभा सभा रात्रिरतारतारता ॥ १०४ ॥’

आवृत्तिः सकृदावर्तनेनैव निर्वहति तत्किमसकृदावृत्तौ यमकं न भवतीत्यत आह—एवमिति । आवृत्तिसामान्यमधिकमनधिकं वा द्वयमप्यावृत्तिपदेनाभिमतमित्यर्थः । वियदाकाशम् । वियती अपगच्छन्ती वृष्टिपरंपरा यस्मात्तत्तथा । परमुत्कृष्टरमणीयम् । घनाघनाली मेघपङिक्तः । रसिते स्तनिते आसितावलम्बिता । सिता शुभ्रा । सरांसि च सरस्यश्च सरःसरस्यः । स्वरसारास्तत्कालोन्मिषितकूजितकान्तिप्रधानाः सारसाः पक्षिणो यत्र तास्तथाभूताः । सभा गृहरूपा जलसमुदायो वा । सभाः सदीप्तिः । ताराणां तारता निर्मलताप्रकर्षः किंचिद्धनरोधसद्भावादीषतारता यस्यां सा तथा ॥

आवृत्त्येकरूपतायामपि । तत्रादियमकं यथा—

‘याम यामत्रयाधीनायामया मरणं निशा ।
यामयाम धियास्वर्त्याया मया मथितैव सा ॥ १०५ ॥’

आवृत्तीति । यज्जातीयमाद्यपादे पदमावृत्तं तज्जातीयमेव द्वितीयादिपादेष्वपि यथास्थानमावर्तत इति प्रकारान्तरमप्यावृत्तिपदेनैव संगृहीतमित्यर्थः । यामत्रयाधीनायामया प्रहरत्रयविश्रान्तियावद्दीर्घताप्रकारया निशा रात्र्या मरणं यामेति वियोगखिन्नस्य प्रार्थना । किमित्येवममङ्गलमाशास्यत इत्याह—यामिति । धिया वुध्द्या यामयां जीवितसर्वस्वाभिमानगोचरतामनैषं सा अनया कल्पकोटिशतायमानयामया रजन्या असूनां प्राणानामार्तिः पीडा तया द्वारभूतया प्रायेण मथितैव भविष्यतीति सुकुमारतरकान्ताजीवितानध्यवसायोक्तिरियम् । अत्र यामेत्येव पदं पादचतुष्टयेऽप्यावृत्तम् । एवमुत्तरत्र ॥

तथैव मध्ययमकं यथा—

‘स्थिरायते यतेन्द्रियो न हीयते यतेर्भवान् ।
128अमायतेयतेऽप्यभूत्सुखाय तेऽयते क्षयम् ॥ १०६ ॥’
  1. ‘नमायते’ क