205 कदम्बः । कदम्बवनधूननेन सर्वतः सौरभसंचारोपपत्तिः । अत्र विहगा इत्यादिकं प्रतिपादमाद्यन्तयोरनावृत्तवर्णषट्कव्यवहितमेवावर्तते ॥

मध्यान्तयमकं यथा—

‘मितमवददुदारं तां हनूमान्मुदारं रघुवृषभसकाशं देवि यामि प्रकाशम् ।
तव विदितविषादो दृष्टकृत्स्नामिषादः श्रियमनिशमवन्तं पर्वतं माल्यवन्तम् ॥ ११३ ॥’

मितमल्पाक्षरमरमत्यर्थमुदारमल्पाक्षरव्यञ्जकं मुदा हर्षेण रघुवृषभो रामस्तस्य सकाशो वासभूमिस्तया पुरस्कृतः । आमिषादा राक्षसाः । अत्र दारमित्यादि प्रतिपादं मध्यान्तयोरेवानावृत्तवर्णपञ्चकव्यपेतमावर्तते ॥

आदिमध्यान्तयमकं यथा—

‘समं स सैन्येन समन्ततः समं पुरंदरश्रीः पुरमुच्चगोपुरम् ।
मदालसां तां प्रमदां सुसंमदां ययौ निधायाक्षययौवना ययौ ॥ ११४ ॥’

समं सह । समं सश्रीकम् । संमदो हर्षः । ययुरश्वमेधीयोऽश्वः । अत्र प्रतिपादं सममित्यादिकमादिमध्यान्तेषु यथोक्तानावृत्तवर्णव्यवहितमावर्तन्ते ॥

त्रिपादयमकेषु व्यपेतमादियमकं यथा—

‘करेण ते रणेष्व129न्तकरेण द्विषतां हताः ।
करेणवः क्षरद्रक्ता भान्ति संध्याघना इव ॥ ११५ ॥’

अस्यापि नातिप्रचुरः प्रयोग इति विशेषभेदा नोदाह्रियन्ते ॥

द्विषतां शत्रूणामन्तकरेण विनाशकारिणा । करेण हस्तेन । करेणवो हस्तिनः । एवं द्वितीयादिपादगोचरं मध्यादियमकं च किमिति नोदाहियत इत्यत आह—अस्यापीतिष ॥

द्विपादयमकेषु व्यपेतमादियमकं यथा—

‘मुदा रमणमन्वीतमुदारमणिभूषणाः ।
मदभ्रमदृशः कर्तुमदभ्रजघनाः क्षमाः ॥ ११६ ॥’
  1. ‘च्छान्त’ ख