213 पाठादियमकयोराद्यन्तयमकयोश्चाव्यपेतादिमध्यान्तयमकता प्रकाशते । यतो द्वितीयचतुर्थपादयोरादिमध्यान्तयमकमेव मध्ययमकभूमिकामवगाहते । अत्रापि वृत्तौचिती गवेषणीया । तदेतद्विवरणे व्यक्तमेवेति ॥

तदेव स्वान्यभेदोच्छेदि सूक्ष्मं यथा—

‘सनाकवनितं नितम्बरुचिरं चिरं सुनिनदैर्नदैर्वृतममुम् ।
महाफणवतोऽवतो रसपरा परास्तवसुधा सुधाधिवसति ॥ १३१ ॥’

अत्र पादान्तादिषु व्यपेतं यदा मध्येष्वव्यपेतं तदुभयमपि पादान्तादिसंहितायामव्यपेतमभिन्नजातीयं जायते । न च प्राचीनां मध्ययमकतां जहातीत्यस्थानयमकमिदं सूक्ष्मावृत्तेरन्यतो भेदेन स्वभेदानुच्छेदि सूक्ष्माव्यपेतमुच्यते । उभयमपि चैतदेवंविधेष्वेव छन्दःसु द्रष्टव्यम् ॥

सनाकेति । नाकवनिताः स्वर्गस्त्रियस्ताभिः सहितम्, यतो नितम्बे स्वच्छन्दविहरणोचिते रुचिरं मनोज्ञम्, सुनिनदैः शोभनशब्दैर्महाफणवान् वासुकिरवतो रक्षतो रसपरा रसनीयेषु श्रेष्ठा । परास्तवसुधा त्यक्तभूभागा । सुधा पीयूषम् । अत्र प्रतिपादं नितं नितमित्यादिकमव्यपेतम् । संधिषु च विरतिपाठे चिरं चिरमित्यादि व्यपेतं प्रतीयते । तत्र संदंशे क्रियमाणे व्यपेतं निवर्तते । अव्यपेतं तु मध्ययमकमवतिष्ठत एव । तत्सर्वमिदमव्यपेतमेव जायते । अत्रापि वृत्तौचिती पूर्ववदेव शरणमित्युपसंहारे दर्शयति—उभंयमपि चैतदिति । स्थूलसूक्ष्मभावेन संधियमकमुभयम् ॥

पादे स्थूलव्यपेतं यथा—

‘अखिद्यतासन्नमुदग्रतापं रविं दधानेऽप्यरविन्दधाने ।
भृङ्गावलिर्यस्य तटे निपीतरसा नमत्तामरसा न मत्ता ॥ १३२ ॥’

अत्र मा भूदव्यपेतप्रसङ्ग इत्येकमेवाक्षरं विहाय स्थूलावृत्तिद्वयेन श्लोकपादयोर्व्याप्तत्वादादिमध्यान्तता न संभवतीत्यस्थानयमकमिदं स्थूलव्यपेतमुच्यते ॥

अखिद्यतेति । यस्य गिरेस्तटे रविमादित्यमुदग्रतापं दधानेऽपि भृङ्गावलिर्भ्रमरमाला नाखिद्यत । यतोऽरविन्दधाने पद्मानां निधानभूते निपीतरसा आस्वादित-