146 पदाभिधेयं तक्रम् । पुत्तहुमत्थे इति शपथः, पुत्रस्य मस्तकेनाहं शपे यदि तक्रस्य व्यापकं दघि जन्मन्यपि जातमासीदिति व्यापकानुपलब्धिः प्रयुक्ता ॥

ननु प्राकृतादिषूत्तमादिपात्रव्यतिकरदर्शनात्कथमेषा व्यवस्था घटत इत्यत आह—प्रायिकमिति । यत्र प्रकृतिनिर्वहणोचितविशेषाभिसंधानेन कविरन्यथा प्रवर्तते । यथा मालत्यां संस्कृतमाश्रित्य ‘एषोऽस्मि भोः कार्यवशात्प्रयोगवशाच्च प्राकृतभाषी संवृत्तः’ इत्यादि । यत्र वा कवेर्व्युत्पत्तिकृतो भाषाविपर्यासः शक्त्या तिरस्क्रियते । यथा मृच्छकटिके विटस्य मध्यमपात्रस्यापि संस्कृतोक्तिः । यत्र वा प्रबन्धौचितीपरवशाः संस्कृतादिजातयो विपर्यस्यन्ते । यथा सर्गबन्धादौ मध्यमादेरपि संस्कृतमेव, खण्डकथापरकथादौ उत्तमादेरपि प्राकृतमेव, बृहत्कथादौ पैशाचमेव, वस्तुबन्धादावपभ्रंश एवेति, तत्र संधिसंध्यङ्गघटनासौष्ठवेन रसः पुष्यतीति भरतमुनिप्रभृतीनामतिप्रकाश एव पन्थाः ॥

साधारण्यादयः पुनरनन्ताः । तासु मध्यमपात्रभूमिकास्थोत्तमपात्रप्रयोज्या संस्कृतप्राकृतयोः साधारणी यथा—

‘सरले साहसरागं परिहर रम्भोरु मुञ्च संरम्भम् ।
विरसं विरहायासं सोढुं तव चित्तमसहं मे ॥ ७ ॥’

साधारण्येति । संस्कृतस्य प्राकृतादिसाधारण्ये पञ्च प्रकाराः, प्राकृतस्य शौरसेन्यादिसाधारण्ये चत्वारः, शौरसेन्याः पैशाच्यादिसाधारण्ये त्रयः, पैशाच्या मागध्यादिसाधारण्ये द्वौ, मागध्या अपभ्रंशसाधारण्ये एक इति । द्विविकल्पे पञ्चदश प्रभेदाः, त्रिविकल्पे विंशतिः, चतुर्विकल्पे पञ्चदश, पञ्चविकल्पे षट्, षड्विकल्पे एकः, इति सर्वमिलने सप्तपञ्चाशत्प्रकारा साधारणी । एवं मिश्रादावपि लोष्टप्रस्तावक्रमेण बहवो भेदा इति तावदुदाहरणे ग्रन्थगौरवं स्यादिति दिङ्मात्रमुदाहरति—तास्विति । संभिन्नसंस्कारा भाषाप्रयोगे हि प्रयोक्तृप्रकृतिसंभेदे भवति । न च प्रकृतिसंभेदस्तात्त्विकः स्वभावसंकरप्रसङ्गात् । अत उक्तं मध्यमपात्रभूमिकास्थेति । भूमिका वर्णिका । मध्यमपात्रप्रकृत्युचितो रागाद्यभिनयस्तत्र तिष्ठति तत्परिग्रहेण त्रिचतुर(?)गवत्सामाजिकानां सम्यङ्मिथ्यासंशयसादृश्यप्रतीतिविलक्षणप्रतिपत्तिपदवीमवतरतीति मध्यमपात्रभूमिकास्थम्, उपलक्षणं चेदम् । उत्तमभूमिकास्थमध्यमप्रयोज्यापीयमेव । एवमुत्तरत्र । तव विरहायासं सोढुं मम चित्तमसहमिति योजना ॥