217 मत्यर्थं सा लङ्का । तपनीयं सुवर्णम् । तापनीयं च तद्भासुरं चेति कर्मधारयः । रक्षसां भरः समूहस्तस्य क्षोभः प्रकर्षजः कोलाहलः । त्रिकूटः सुवेलः । अकलङ्का दोषरहिता । अकलिकानि कलिरहितान्यद्रिकूटानि सुवेलशिखराणि यस्यां सा तथा ।
यत्सूक्ष्मं भागं बह्वावृत्ति तदपि स्थूलसूक्ष्ममेव । यथा—
यत्सूक्ष्मं भागमिति । भागशो विविच्यमानं सूक्ष्ममेव, वृत्तिभूयस्तया तु स्थूलमिव प्रथत इति सूक्ष्मेक्षिकयाभिधानम् ॥
क्रमप्राप्तमिदानीं पादयमकमुदाहियत इत्याह—स्थानास्थानेति ॥
तत्र व्यपेतभेदेषु प्रथमपादयोरावृत्तिर्यथा—
न मन्देति । मन्दया तत्कालोचितप्रतिपत्तिविधुरया आवर्जितो मान ईर्ष्यारोषलक्षणो यया सा तथा । सात्मा आत्मवती । अनयोः कर्मधारयः । नमन्पादान्ते लुठन्नपि दयावर्जितौ मानसात्मानौ यस्या इति बहुव्रीहेर्डाप् ॥
तत्रैव द्वितीयतृतीययोर्यथा—
आनाकं स्वर्गावधि ललनमुल्लासस्तच्छीलः रुचिरेण मनोहरेण नेत्रा नायकेन नानाकलानां चातुःषष्टिकीनामाली परम्परा । एणनेत्रा हरिणलोचना । द्वयमपि श्रीविशेषणम् ॥
एवं तृतीयचतुर्थयोरपि यथा—