220

इदानीं क्रमप्राप्तं महायमकं लक्षयन्नाह—एकाकारेति । द्विविधमेकाकारं भवति । एकभावृत्तिचतुष्केण, अपरभावृत्त्यष्टकेन । तदिदमुक्तमाद्यं पुनरनावृत्तमिति । प्रतिपादमवान्तरावृत्तिभेदेनैवाष्टकनिर्वाहात् ॥

तत्राव्यपेतभेदे महायमकं यथा—

‘सभासमानासहसापरागात्सभासमाना सहसा परागात् ।
सभासमाना सहसापरागात्सभासमाना सहसापरागात् ॥ १४९ ॥’

भासः कान्तिः, मानश्चित्तसमुन्नतिः पूजा वा, आसः शत्रुविधूननम्, हसः स्मेरता, एतैः सह वर्तते इति सभासमानासहसा यतोऽपरागं चित्तकालुष्यमत्ति । भासमानैः शोभमानैः सह वर्तते सभासमाना । सहसा मार्गशीर्षेण हेतुना प्रावृड्वि च्छेदप्रादुर्भूतान् परागान् रजःकणानतति प्राप्नोतीति परागात् । भा कान्तिस्तया समाना सरूपास्तैः सह वर्तत इति सभासमाना । षोऽन्तकर्मणि । स्यन्ति परानिति साः, तैः सह वर्तत इति सहसा । एवंभूता असमाना अनुपमा सभा जनसमवायोऽपरागादपरस्मात्पर्वतात् सहसा शीघ्रं परागात्परागतेति ॥

व्यपेतभेदे द्वितीयं महायमकं यथा—

‘प्रवणमदभ्रमदचलद्विपराजितमूढविमलमहिततरङ्गं विरसं सदातिमिश्रितमच्युतधाम प्रतीतशिखिचरितवनम् ।
प्रवणमदभ्रमदचलद्विपराजितमूढविमलमहिततरङ्गं विरसं सदातिमिश्रितमच्युतधामप्रतीतशिखिचरितवनम् ॥ १५० ॥’

प्रवणं प्रकृष्टतरवनम् । ‘प्रनिरन्तःशर—’ इत्यादिना णत्वम् । अदभ्रेण महता मदेन दर्पेण चलन्तो ये वयः पक्षिणस्तैः पराजिता मूढवयोबालाः पक्षिणो यत्र तम्, अलमत्यर्थं पूर्वोक्तरूपानमूढान् वीन् पक्षिणो मलते धारयतीति वा । अहिततरङ्गं भुजङ्गव्याप्तावर्तस्थानम् । विरसमतलस्पर्शतया भूभागरहितम् । सदा सर्वकालं तिमिभिर्महामत्स्यैः श्रितमाश्रितम् । अच्युतस्य भगवतो नारायणस्य धाम विश्रान्तिस्थानम् । प्रतीतः प्रख्यातः शिखी वडवानलस्तेन चरितवनं भक्षितजलोत्पीडमिति प्रथमः श्लोकार्थः । प्रवणमदाः मदायत्तदर्पाः सततनिस्यन्दमानमदजलाश्च भ्रमन्तो ये मैनाकप्रभृतयोऽचला द्विपाः करिमकराश्च तैः शोभितम् । ऊढा विमला स्वभावनिर्मला महिताः पूजितास्तरङ्गा येन तम् । विरसं क्षारम् । सतीभिः शोभ-