222

आत्मनः कीर्ति नौति स्तौति । परेषां शत्रूणां च नुदति क्षिपति । द्विषां भयं करोति जनयति । सुहृदां च भिनत्तीति धातुरूपप्रकृतिभेदादेवार्थभेदः क्विप्प्रत्ययस्य साधारण्यात् ॥

लिङ्गश्लेषोऽपि प्रकृतिश्लेष एव । स यथा—

‘कुवलयदलद्युतासौ दृशा च वपुषा च कं न दर्शयते ।
अधरीकृतप्रवालश्रियाङ्घ्रिणास्येन न नतभ्रूः ॥ १५३ ॥’

अत्र दृग्वपुषोरास्यचरणयोश्च कुवलयदलद्युतेत्यधरीकृतप्रवालश्रियेति च लिङ्गभेदेऽपि तुल्यरूपे विशेषणे इति लिङ्गश्लेषोऽयम् ॥

ननु ‘वर्णपदलिङ्गभाषाप्रकृतिप्रत्ययविभक्तिवचनानाम्’ इति कैश्चित्परिसंख्यातम्, ततश्चाष्टधा श्लेषो भविष्यतीत्यत आह—लिङ्गश्लेषोऽपीति । तदिदमुदाहरणीयमित्याह—स यथेति । दर्शयत इत्यात्मनेपदेन तटस्थमपि कं न हठाद्दर्शनाय प्रेरयतीति व्यज्यते । अधरीकृता जिताधरत्वमापादिता च । ननु च कुवलयदलद्युतेति अधरीकृतप्रवालश्रियेति च प्रकृतिभागो न भिद्यते, तत्कथमयं प्रकृतिश्लेष इति । नैतत् । आविष्टलिङ्गद्वयविशेष्यलिङ्गद्वयसंनिधानादनाविष्टलिङ्गं विशेषणमवश्यमुभयलिङ्गग्राहि वाच्यम् । पञ्चकप्रातिपदिकार्थपक्षे विभक्तिर्द्योतिकैव तथा च लिङ्गभेद इति विभिन्ने विशेषणप्रकृती मिथःसंश्लिष्टे इति । अत्रेत्यादि ॥

प्रत्ययश्लेषः सोद्भेदो निरुद्भेदश्च । तयोराद्यो यथा—

‘तस्या विनापि हारेण निसर्गादेव हारिणौ ।
जनयामासतुः कस्य विस्मयं न पयोधरौ ॥ १५४ ॥’

अत्र हारिणाविति इनिणिनिप्रत्यययोरेकरूपत्वाद्विनापि हारेणेति च मत्वर्थीयोद्भेदात्सोद्भेदप्रत्ययश्लेषोऽयम् ॥

तद्वाक्यस्थशब्दान्तरप्रकाशितः सोद्भेदः, अतथाभूतो निरुद्भेदः । मत्वर्थायेनिप्रत्यये हारवन्तौ हारिणौ । आवश्यकार्थणिनिप्रत्यये सहृदयानां मनो हरत इति हारिणौ । आनन्दघनरसचर्वणारूपो विस्मयोऽद्भुतं च । अपिशब्देन विराधद्योतकेन हारहीनयोरपि हारसंबन्धो विस्मयरसार्पक इति मत्वर्थीयोन्मुद्रणात्सोद्भेदः । प्रत्ययश्लेषस्तु कथं भवतीत्यत आह—इनिणिनिप्रत्ययोरिति ॥