229
श्रुतिभिर्वृत्तिभिर्वर्णैः पदैर्नामद्विरुक्तिभिः ।
लाटानामुक्तिभिश्चायं षट्प्रकारः प्रकाशते ॥ ७१ ॥

एवं स्थिते सामान्यलक्षणविभागमाह—श्रुतिभिरिति । आवृत्तिर्द्विधा—वर्णमात्रावलम्बिनी, समुदायगोचरा च । आद्यापि द्विधा—सामान्यतः रूपतश्च । सामान्यमपि द्विधा—स्थानतः, व्यापारतश्च । तत्र स्थानं कण्ठादिलक्षणं सैव श्रुतिः । श्रूयते हि तयाभिव्यक्तो वर्णव्यापारोऽभिव्यञ्जनरूपः, स एव रसविषये वर्तनं वृत्तिरुच्यते । श्रुतिभिरित्यादौ इत्थंभूतलक्षणे तृतीया ॥

प्रायेण श्रुत्यनुप्रासस्तेष्वनुप्रासनायकः ।
सनाथैव हि वैदर्भी भाति तेन विचित्रिता ॥ ७२ ॥

प्रायेणेति । श्रुत्यनुप्रासो हि श्लेषघटकः । श्लेषश्च गुणान्तरसमकक्षतयावतिष्ठमानो वैदर्भी प्रयोजयति । अनुप्रासान्तरं तु प्रौढिं वा माधुर्यं वा प्रकर्षयतीति न तथानुकूल्यम् । कविशक्तिवशात्तु क्वचित्तदपि प्रयोजयतीति प्रायपदेन सूचितम् । स्थितिप्रयोजको लोके नाथ इत्युच्यते, तेषु नायक इत्येव वक्तव्ये पुनरनुप्रासपदमनुप्रासान्तरसाधारण्येनैव शब्दालंकारत्वं दर्शयितुमिति समाधेयम् । विचित्रिता आलेख्यमिव लेखया चमत्कारकारित्वमानीता ॥

निवेशयति वाग्देवी प्रतिभानवतः कवेः ।
पुण्यैरमुमनुप्रासं ससमाधिनि चेतसि ॥ ७३ ॥

कथं पुनरस्यानुप्रासस्य पृथक्प्रयत्नानुसंधेयस्यापि रसप्रकाशसामग्र्यामन्तर्भाव इत्यत आह—निवेशयतीति । अक्लिष्टपदवाक्यार्थस्फुरणं प्रतिभानम् । तदेव कथमित्यत आह—ससमाधिनीति । पुण्यैरिति । तेन रसवत्त्वव्यवस्थितस्य कवेरहंपूर्विकाकृष्टोऽनुप्रासो न पृथक्प्रयत्ननिर्वर्त्य इति तात्पर्यम् । ग्राम्यादिभेदोऽग्रे विवरिष्यते ॥

स त्रिधा—ग्राम्यः, नागरः, उपनागरश्च । तेषु ग्राम्यश्चतुर्धा—मसृणः, वर्णमसृणः, वर्णोत्कटः, वर्णानुत्कटश्च ।

तेषां मसृणो यथा—

‘एष राजा दयालक्ष्मीं प्राप्तवान्ब्राह्मणप्रियः ।
तदा प्रभृति धर्मस्य लोकेऽस्मिन्नुत्सवोऽभवत् ॥ १६६ ॥’