233

अत्र डकारादीनामीषत्स्पृष्टतादिभिरेकत्वेऽपि भेदावभास इति तत्त्वेऽप्येकत्वनिह्नवेन नागरानुप्रासोऽयम् ॥

तत्त्वेऽपीति । द्रुतादौ वृत्तिमात्रं भिद्यते, न तु रूपमिति महाभाष्यकारोक्तदिशा येषामेकस्थानत्वेऽपीषत्स्पृष्टतरत्वादिकृता भेदप्रथा ते डकारादयः । कतिपयेऽस्य विषयास्तानुद्दिश्य क्रमेणोदाहरति—क्रोड इत्यादि । अङ्कगतस्य बालकस्य वक्षसा पीडनं संक्रान्तकमालिङ्गनमामनन्ति । अनेन किल प्रच्छन्नप्रियगोचरो गाढालिङ्गनमनोरथः प्रकटितो भवति । कर्णयोरुपांशु यदभिधीयते तेन तुल्यमिदमिति विदग्धसहचरीपरिहासोक्तिरियम् । अत्र च क्रोडडिम्भेत्यादौ डकारवकारयकाराणामीषत्स्पृष्टतरत्वादिभेदः श्रुतिसाजात्यं च सुप्रसिद्धमेवेति ॥

तथैव ढकारवकारलकाराणां यथा—

‘नवोढे त्वं कुचाढ्यापि नोपगूढाय ढौकसे ।
वहन्बाहुलते ह्रीणो वरः पुलकलङ्घिते ॥ १७३ ॥’

अत्र ढकारादीनामीषत्स्पृष्टतादिभिरेकत्वेऽपि भेदावभास इति तत्त्वेऽप्येकत्वनिह्नवेन नागरानुप्रासोऽयम् ॥

ढकारवकारलकाराणामिति । वकारोदाहरणं दत्तमपि वर्णान्तरसरलतया पुनर्दीयते । उपगूढमालिङ्गनम् । अपिशब्दो भिन्नक्रमः । उपगूढायापि न ढौकसे । दूरे पततः कचग्रहादिकेलिषु प्रवृत्तिर्लङ्घनेन सर्वाङ्गीणः पुलकोद्भेदो बहिर्व्यावर्तनमन्तरनुवर्तनं च मुग्धाङ्गनाजातिः । अत्रापि ढकारादीनामीषत्स्पृष्टतादिभेदः सुबोध एव ॥

उभयगुणयोगान्नात्यप्रसिद्ध उपनागरः । यथोच्यते—

डलयोरैक्यमित्यादिवाक्यैर्यस्यानुमीयते ।
समानश्रुतितान्योन्यं सोऽनुप्रासः प्रशस्यते ॥ ७५ ॥

स डलयोरैक्येन यथा—

‘शयने यस्य शेषाहिः सनीडे वडवानलः ।
महासाहसिनामग्र्यं तमीडे जडशायिनम् ॥ १७४ ॥’

सोऽयमुपनागरः श्रुत्यनुप्रासः ॥