239

अन्ये पुनरन्यथा वृत्तिं व्याचक्षते—

स्पर्शादीनामसंबन्धः संबन्धो वापि यो मिथः ।
स्फुटादिबन्धसंसिध्द्यै सेह वृत्तिर्निगद्यते ॥ ८३ ॥

अन्ये पुनरिति । वर्णानां वर्तनं वर्तनाधिष्ठानं च वर्तिपदेनाभिमतम् । आद्ये संघटनविघटनाभ्यां द्विधा । समस्तव्यस्तभेदेन संघटनविघटने द्विधा । कादयो मावसानाः स्पर्शाः । आदिग्रहणादन्तःस्थोष्मणोः संघटनबहुलः संदर्भः प्रस्फुटः । विघटनबहुलः कोमलः । उभयबहुल उन्मिश्रः ॥

काव्यव्यापी च संदर्भो वृत्तिरित्यभिधीयते ।
सौकुमार्यमथ प्रौढिर्मध्यमत्वं च तद्गुणाः ॥ ८४ ॥
गम्भीरौजस्विनी प्रौढा मधुरा निष्ठुरा श्लथा ।
कठोरा कोमला मिश्रा परूषा ललितामिता ॥ ८५ ॥

द्वितीयं वृत्तिशब्दार्थमाह—काव्यव्यापी चेति । अत्रापि दोषप्रसङ्गापाकरणार्थमाह—सौकुमार्यमिति । अत एव [सौकुमार्यप्रौढिमध्यमत्वानि] गुणाः । शैथिल्यपरुषत्वे तु दोषावित्यर्थः ॥

इति द्वादशधा भिन्ना कविभिः परिपठ्यते ।
कारणं पुनरुत्पत्तेस्त एवासां विजानते ॥ ८६ ॥

योगासंयोगयोः प्रतियोगिव्यवस्थाविरहात्कथं द्वादशप्रकारता व्यवस्थितिरित्याशयवानाह—कारणं पुनरिति ॥

तासु गम्भीरा यथा—

‘अप्फुन्दन्तेण णहं महिं च तडि उद्धमाइअदिसेण ।
दुन्दुभिगम्भीररवं दुण्डुहिअं अम्बुवाहेण ॥ १९० ॥’
[आस्पन्दता नभो महीं च तडिदुध्मापितदिशा ।
दुन्दुभिगम्भीररवं दुन्दुभितमम्बुवाहेन ॥]

सैषा प्रायस्तवर्गपवर्गयोस्तृतीयचतुर्थानां पकारफकारयोश्च स्वसंयोगबिन्दुयोगाम्यां जायते ॥