240

दूषणप्रतिपत्तिसौकर्यात्तत्प्रसिध्द्यैव पृथगुदाह्रियत इत्याह—तास्विति । अप्फुन्दन्तेण व्याप्तवता । उद्धमाइअं व्याप्तम् । दुन्दुभिरन्तर्गतकांस्यभाजनो निःस्वानविशेषः । दुण्डुहिअं शब्दायितम् । दकारधकारौ तवर्गस्य बकारभकारौ पवर्गस्य तृतीयचतुर्थौ ॥

ओजस्विनी यथा—

‘पत्ता अ सीभराहअधाउशिलाअलणिसण्णराइअजलअम् ।
सञ्जं ओज्जुरपहसिददरिमुहणिम्महिअवउलमइरामोदम् ॥ १९१ ॥’
[प्राप्ताश्च शीकराहतधातुशिलाजलनिषण्णराजितजलजम् ।
सह्यं निर्झरप्रहसितदरीमुखनिर्मथितबकुलमदिरामोदम् ॥]

सेयं मूर्धन्यानां प्रथमचतुर्थपञ्चमद्वित्रैस्तदावृत्त्या च प्रायो जायते ॥

सततशीकरसिच्यमानगैरिकशिलातललुण्ठनेन जलदानां रञ्जनम् । विशीर्य पतनेनात्यन्तधवला निर्झरा एव हासो यस्य तादृशेन दरीमुखेनान्तःप्ररूढबकुलकुसुमामोदनिःसरणरञ्जितजलधरप्रतिबिम्बभूतताम्रनयनोन्मुद्रणात् । हासबकुलामोदाभ्यां च क्षीबतारोपरूपा समासोक्तिर्ध्वन्यत इत्याराध्याः । ओज्जुरो निर्झरः । णिम्महिअं निःसृतम् ॥

प्रौढा यथा—

‘कृत्वा पुंवत्पातमुच्चैर्भृगुभ्यां मूर्ध्नि ग्राव्णां जर्जरा निर्झरौघाः ।
कुर्वन्ति द्यामुत्पतन्तः स्मरार्तं स्वर्लोकस्त्रीगात्रनिर्वाणमत्र ॥ १९२ ॥’

सैषा प्रायेण मूर्धन्यानामन्तःस्थानां संयोगात्पूर्वगुरुत्वेन जायते ॥

भृगवस्तटाः । भृगुपातस्य सुरस्त्रीसंगमः फलम् । अत्र कुर्वन्स्वर्लोकनिर्वर्त्येतेषु मूर्धन्यानामन्तःस्थसंयोगा उच्चैःशब्द इत्यादौ स्वभावगुरूणामपि पूर्वरूपसंयोगसन्निधौ छायाविशेषो भवतीत्याहुः केचित् ॥

मधुरा यथा—

‘किञ्जल्कसङ्गिशिञ्जानभृङ्गलाञ्छितचम्पकः ।
अयं मधुरुपैति त्वां चण्डि पङ्कजदन्तुरः ॥ १९३ ॥’

सैषा प्रायोऽनुस्वारपुरोवर्तिस्पर्शतया जायते ॥