149
[मुग्धे 107ग्रहणकं गृहाण त्वं धारय मुद्रां निजे हस्ते ।
निश्चयः सुन्दरि तवोपरि मम सुरतस्पृहास्ति ॥]

सेयमपशब्दप्रयोगतोऽपभ्रष्टाप्यविद्वद्भिः श्रोत्रियाद्यैः प्रयुज्यत इत्यपभ्रष्टा जातिः । अस्या अपि चानुकरणे साधुत्वमिष्यते ॥

अपभ्रष्टेति । अत्र तवोपरि सुरतस्पृहास्तीत्यादिकापशब्दबहुलत्वेनापभ्रष्टा स्पष्टैव । सा तु कथमलंकार इत्यत आह—सेयमिति । श्रोत्रियश्छान्दसः । आद्यपदेन बालादयः । सर्व एव हि लौकिकः पदार्थोऽभिनयकक्षामधिरूढः परित्यज्य ग्राम्यमभिमुखीभूतो विभावादिषु कथं नालंकारस्तदिदमुक्तं प्रयोगत इति । न चापशब्दानां दोषत्वमेवेति वाच्यम् । अनुकरणे तु सर्वेषामिति दोषसामान्यावलम्बिना गुणीभावेनास्य विषयीकृतत्वादिति ॥

नानावच्छिन्नजातिः काव्यशरीरे निविशत इति तदवच्छेदरूपां गतिमनन्तरं लक्षयति—

पद्यं गद्यं च मिश्रं च काव्यं यत्सा गतिः स्मृता ।
अर्थौचित्यादिभिः सापि वागलंकार इष्यते ॥ १८ ॥

पद्यमिति । पठितेः पदात्पदान्तरसंचारो गतिः । सा केनचिदौचित्योपनिपातिना संदर्भपरिमाणेन नियम्यते । ततस्तदप्युपचारेण गतिः । पठितिपरिमाणं च काव्यं समाश्रयत इति तदपि गतिस्तच्च पद्यादिभेदेन त्रिविधमिति संक्षेपः । अत एव गद्यबन्धे तु कैश्चिद्वृत्तमाश्रितं वृत्तं वर्तनमियत्तेति यावदिति । सर्वनामशब्दा हि कदाचिदुद्देश्यस्य लिङ्गमाश्रयन्ते कदाचित्प्रतिनिर्देश्यस्येति काव्ये यत्सा गतिरित्युक्तम् । तत्र पद्यं चतुष्पदीति न लक्षणमुल्लालमात्रादौ द्विपदपञ्चपदादिशरीरे तदभावात् । अपादः पदसंतानो गद्यमित्यपि न । अपादत्वं ह्यप्रत्यभिज्ञायमानवृत्तभागत्वं, विवक्षातश्चतुष्पदीव्यतिरिक्तत्वं वा । आद्ये वृत्तिगन्धिपद्यं न स्यात् । द्वितीये त्वतिप्रसङ्गः । तस्माच्छन्दोनियमवती काव्यम्, अतथाभूता तु गद्यमिति विभागः । गद्यपद्यात्मकं काव्यं मिश्रम् । तदस्या गतेरलंकारत्वमुपपादयति—अर्थौचित्यादिभिरिति ॥

तत्रार्थौचितीमाह—

कश्चिद्गद्येन पद्येन कश्चिन्मिश्रेण शक्यते ।
कवितुं कश्चन द्वाभ्यां काव्येऽर्थः कश्चन त्रिभिः ॥ १९ ॥
  1. रतमूल्यम्