अपभ्रष्टेति । अत्र तवोपरि सुरतस्पृहास्तीत्यादिकापशब्दबहुलत्वेनापभ्रष्टा स्पष्टैव । सा तु कथमलंकार इत्यत आह—सेयमिति । श्रोत्रियश्छान्दसः । आद्यपदेन बालादयः । सर्व एव हि लौकिकः पदार्थोऽभिनयकक्षामधिरूढः परित्यज्य ग्राम्यमभिमुखीभूतो विभावादिषु कथं नालंकारस्तदिदमुक्तं प्रयोगत इति । न चापशब्दानां दोषत्वमेवेति वाच्यम् । अनुकरणे तु सर्वेषामिति दोषसामान्यावलम्बिना गुणीभावेनास्य विषयीकृतत्वादिति ॥

नानावच्छिन्नजातिः काव्यशरीरे निविशत इति तदवच्छेदरूपां गतिमनन्तरं लक्षयति—