245

न मालतीदामेत्यादौ प्रथमपादे मकारावृत्तिर्द्वयेन विवरणम्, द्वितीयपादे सकृत्प्रयोगेण तस्यैव संवृतिः तृतीयपादे नकारसकारयोरावृत्त्या विवृतिः, चतुर्थे नेति संवरणम् । तदिह भूयोविकास-किंचित्संकोच-किंचिद्विकास-सर्वथासंकोचपरिपाट्या संदर्भनिर्वहणं शोभाकरमिति व्याचष्टे—अत्रेति ॥

चक्रवालवद्धानोपादानाभ्यां गृहीतमुक्तो यथा—

‘लोलल्लवङ्गलवलीवलया निकुञ्चकूजत्कपिञ्जलकुला मुकुलावनद्धाः ।
अध्यूषिरे कनकचम्पकराजिकान्ता येनापरान्तविजये जलधेरुपान्तः ॥ २०६ ॥’

अत्र चक्रवालक्रमः सुव्यक्त एव । सोऽयं वर्णानुप्रासो गृहीतमुक्त इत्युच्यते ॥

लोलदिति । कपिञ्जलो गौरतित्तिरिः । अपरान्तो देशविशेषः । पूर्ववलनेनोत्तरग्रहणं चक्रवालं व्यञ्जनमात्रवलनमभिप्रेतम्, तेन वली वलेत्यत्रापि चक्रवालसिद्धिः । एवमुत्तरत्र ॥

क्रमेण द्वित्राणां त्रिचतुराणां वर्णानामसंयोगस्वरवर्णानामावृत्तिः क्रमवान्यथा—

‘नितम्बगुर्वी गुरुणा प्रयुक्ता वधूर्विधातृप्रतिमेव तेन ।
चकार सा मत्तचकोरनेत्रा लज्जावती लाजविमोकमग्नौ ॥ २०७ ॥’

अत्र गुर्वी गुरुणा प्रयुक्तेति, वधूर्विधातृ इति, चकार चकोरेति, लज्जावती लाजविमोकमिति द्वयोस्त्रयाणां च स्वरसंयोगवर्णानां क्रमेणावृत्तिः, सोऽयं वर्णानुप्रासः क्रमवानित्युच्यते ॥

क्रमेणेति । द्वावारभ्यैव क्रमसंभव ऊर्ध्वं चतुर्भ्यो विरसायते । तेन पञ्चषाणामित्यादिनोक्तमसंयोगस्वराणामित्यविवक्षितसंयोगस्वराणाम् । गुरुणेत्यनुल्लङ्घनीयाज्ञता । तथा चलत्प्रक्त्या दुर्वहनितम्बभारालसाया अपि कथंचित्पदविन्यासेन कान्तिविशेषो ध्वन्यते । स्वभावताम्रयोरपि नेत्रयोस्तत्काले धूमाश्लेषाद्