क्रमेणेति । द्वावारभ्यैव क्रमसंभव ऊर्ध्वं चतुर्भ्यो विरसायते । तेन पञ्चषाणामित्यादिनोक्तमसंयोगस्वराणामित्यविवक्षितसंयोगस्वराणाम् । गुरुणेत्यनुल्लङ्घनीयाज्ञता । तथा चलत्प्रक्त्या दुर्वहनितम्बभारालसाया अपि कथंचित्पदविन्यासेन कान्तिविशेषो ध्वन्यते । स्वभावताम्रयोरपि नेत्रयोस्तत्काले धूमाश्लेषाद् 246 द्विगुणो राग इति उपमाने मत्तपदपोषः पूर्वार्धे द्वयोर्द्वयोरूत्तरार्धे त्रयाणामनुल्लङ्घितक्रमाणामेव व्यञ्जनानामावृत्तिरिति स्फुटं विवरणम् ॥