248

एकवर्णावृत्तेरिति । वर्ग्यावृत्तौ हि कदाचिदेकवर्णावृत्तिरपि संदर्भव्यापिनी संभाव्यते । तस्यां प्रतीयमानायामेवान्तरान्तरा नानाजातीये वर्णावृत्तिश्चित्रशोभादायिनी विचित्रानुप्रास इत्युच्यते । तथा हि । प्रकृतोदाहरणे संदर्भसमाप्तिं यावदावर्तमाने एव चकारे काञ्चन काञ्चेति लयवलदित्यादिषु ककारलकाराद्यनुप्रासोद्भटभावेनव वर्णावृत्तेर्न्यग्भाव इव प्रकाशते । चारी संचरणप्रकारः । सा भौमी आकाशी च । चञ्चुरो मनोहरः । चञ्चरीको भ्रमरः ॥

अन्ये पुनरन्यथा चित्रविचित्रयोर्लक्षणं व्याचक्षते । तत्र यमकच्छायानुकारी चित्रः । स एव वर्णानुप्रासवान्विचित्र इति । तत्र चित्रो यथा—

‘सर्वाशारुधि दग्धवीरुधि सदा सारङ्गबद्धक्रुधि क्षामक्ष्मारुहि मन्दमुन्मधुलिहि स्वच्छन्दकन्दद्रुहि ।
शुष्यत्स्रोतसि तप्तभूरिरजसि ज्वालायमानाम्भसि ज्येष्ठे मासि खरार्कतेजसि कथं पान्थ व्रजञ्जीवसि ॥ २१४ ॥’

अन्ये पुनरिति । विभिन्नार्थैकरूपत्वं स्थानविभागालम्बनं व्यपेताव्यपेतभावश्च यमकच्छायावर्णानुप्रासवानिति अतिशायने मतुप् । सर्वाशारुधीत्यादौ विप्रभृतीनां विभिन्नार्थैकरूपाणां व्यपेतानामेव पादमध्यान्तयोरवस्थितिः । एवमव्यपेतमप्युन्नेयम् । नात्र वर्णानुप्रास उत्कट इति विचित्राद्भेदः ॥

विचित्रो यथा—

‘उद्यद्बर्हिषि दर्दुरारवपुषि प्रक्षीणपान्थायुषि च्योतद्विप्लुषि चन्द्ररुङ्मुषि सखे हंसद्विषि प्रावृषि ।
मा मुञ्चोच्चकुचान्तसंनतगलद्बाष्पाकुलां बालिकां काले कालकरालनीलजलदव्यालुप्तभास्वत्त्विषि ॥ २१५ ॥’

अत एवोत्तरत्र स्फुटवर्णानुप्रासमुदाहरति ॥

वर्णावृत्तिरनुप्रास इति यः कृतलक्षणः ।
सोऽयं द्वादशधा भेदैः प्रविभज्य प्रदर्शितः ॥ ९२ ॥

तेऽमी शुद्धवर्णा वृत्तिप्रकाराः षट्रत्रिंशल्लक्षिताः, सांप्रतं द्वादशतापन्नवर्णावृत्तयो लक्ष्यन्त इत्याह—वर्णावृत्तिरनुप्रास इति । द्वादशधेति वीप्सा द्रष्टव्या ॥