क्रमप्राप्तं नामद्विरुक्त्यनुप्रासं विभजते—स्वभावत इति । यद्यपि पदानु-254 प्रासादौ नामद्विरुक्तिरतिव्यापिका तथाप्यर्थोपक्षेपोपनिपातिनी सह विवक्षिता । अर्थो द्विविधः—आभिधानिकः, उपाधिश्च । आद्यो गौणमुंख्यभेदेन द्विप्रकारः, द्वितीयोऽपि वीप्साभीक्ष्ण्यादिरनेकविधः । द्वरुक्तिरपि नाम शरीरसंपादिका नाम्नः सतश्चेति द्वयी बोद्धव्या । अत एव द्विरुक्तस्यैवाभिधाशक्तियोगात्स्वभावत इत्युक्तम् ॥