256 सिद्धे हि वस्तुनि पौनःपुन्यप्रतीतिः क्रियोपाधिते एव न स्वरूपेण । ननु णमुलैवाभीक्ष्ण्याभिधानात्किं द्विरुक्तिः करिष्यत इत्यत आह—सोऽयमिति । न चाभीक्ष्ण्यं णमुलो वाच्यम् । क्त्वार्थे तस्याभिधानात् । द्विरुक्तिसहितस्यैव तस्यानुपरतिव्यञ्जकत्वात् । स्वरूपार्थाभ्यामन्तरतमशब्दद्वयरूप आदेशो वा द्विरुच्चारणं वा द्विरुक्तिशब्दार्थः ॥

क्रियापदाभीक्ष्ण्याद्द्विरुक्तौ तु पुनरुक्तेरपि पुनरुक्तिः । यथा—

‘जयति जयति देवः श्यामकण्ठः पिनाकी जयति जयति देवी लोकमाता भवानी ।
जयति जयति धन्यः सोऽपि भक्तस्तयोर्यः किमपरमिह धन्यं वर्ण्यते तावदेव ॥ २३३ ॥’

न चावश्यं द्वावेव शब्दौ प्रयोक्तव्यौ किंतु यावद्भिरभिमतोऽर्थः प्रतीयते तावन्तोऽभीक्ष्ण्यशब्दाः प्रयोक्तव्यास्ते नाव्ययकृत्सु दृश्यन्ते किंतु तिङ्पदेष्वेवेत्याह—क्रियापदेति । यद्यप्येकवाक्यार्थसंगत्या क्रियापदस्य द्वयमेवोच्चारणं तथापि काव्यापेक्षया बाहुल्यमवसेयम् ॥

आदिग्रहणेन निमूलसंभ्रमादयः परिगृह्यन्ते । तेषु निमूलादिर्यथा—

‘निमूलकाषं कषति स्वान्तमन्त स्मरज्वरे ।
लाजस्फोटं स्कुटन्त्याशु हृदये हारयष्टयः ॥ २३४ ॥’

आदिग्रहणेनेति । तत्तदितरप्रकरणप्रापितानां द्विरुक्तिप्रकाराणाभादिपदेनोपग्रहो विधेयः । तद्यथा—‘अर्वागर्वाग्बलवदुपलग्रन्थयः क्षेत्रशैला दूरे दूरे मणिमयदृषन्मेखलो रत्नसानुः । आरादारान्निधिरयमपां यद्दवीयो दवीयान्दुग्धाम्भोधिस्तदयमसदृक्छिल्प एवादिशिल्पी ॥’ अत्रानुपूर्व्ये द्वे भवत इति द्विरुक्तिः । एवं स्वार्थेऽवधार्यमाणे इत्यादयोऽपि द्विरुक्तिप्रकाराः स्वयमवसेया इत्याशयवानुपलक्षणतया किंचिदुदाहरति—निमूलकाषमिति । ‘कषादिषु यथाविध्यनुप्रयोगः’ इति तस्मिन्नेव प्रयुक्ते द्विरुक्तिसिद्धिः ॥

संभ्रमेण यथा—

‘अस्थीन्यस्थीन्यजिनमजिनं भस्म भस्मेन्दुरिन्दु- र्गङ्गा गङ्गोरग उरग इत्याकुलाः संभ्रमेण ।’