विस्मयसंभ्रमेण यथा—
एतेषु समस्तेष्वपि संभ्रमेषु यावद्बोधमिति द्विरुक्तिः ॥
एवं त्रिरुक्तिरपि द्रष्टव्या यथा—
संभ्रमेषु यावद्बोधमिति यावच्छब्दार्थमाविष्कुर्वाणः पूर्वोक्तमभिप्रेत्याह—एवं त्रिरुक्तिरपीति । उपलक्षणं चेदम् । चतुरादिद्विरुक्तिरदण्डवारितैव ॥
समभिहारो भृशत्वम् ॥
ननु वाक्यार्थप्रयुक्त्यैव काव्यस्य सनाथीकरणात्किमनुप्रासेनेत्यत आह—जायते न चेति । उदाहरणेनालंकार्यसंकरवदलंकारसंकरोऽपि लोकप्रसिद्ध एव शोभाहेतुरित्यभिमतमिति ॥
क्रमप्राप्तं लाटानुप्रासं लक्षयति—अर्थाभेदे इति । लाटजनवल्लभोऽनुप्रासो लाटानुप्रासः । अर्थभेदे कथं न पुनरुक्तिदोष इत्यत उक्तम्—प्रवृत्त्या भिन्नयेति । तात्पर्यभेदेनेत्यर्थः । अत एव यमकाद्भेदः ॥