262
ते किं सन्ति न सन्ति सन्ति यदि वा के सन्ति सन्तीदृशाः सर्वस्तेषु गुणैर्गृहीतहृदयो लोकः कुतो वर्तते ॥ २४८ ॥’

अत्र वच्मीति सन्तीत्येतयोरनेकगुणावृत्तिः ॥

अनेकगुणा इति । आवृत्तिद्वैगुण्यादिनानेकगुणत्वम्, न च गुणनायामियत्तावधारणकारणमस्तीत्यभिसंधाय तस्येयत्ता न शक्यते कर्तुमिति पूर्वमुक्तम् । स्वेषामात्मीयानां मध्ये यः कश्चिद्दोषस्तत्र दमा दण्डप्रकारा न दृश्यन्त इति ॥

समस्त एकगुणो यथा—

‘चन्द्रानन चन्द्रदिनं मृगलोचन मृगशिरश्च नक्षत्रम् ।
तिथिरतिथिप्रियदशमी परतस्त्वेकादशी प्रहरात् ॥ २४९ ॥’

नन्विह तिथिरित्यसमस्तम् । न केवलमसमस्तं भिन्नार्थतया लाटीयानुप्रासेऽपि न संगच्छते । संगते च केनचित्पदानुप्रासेन । न च लाटीयानुप्रासो वा नामानुप्रासो वा पदानुप्रासाद्भिद्यत इति ॥

यद्यप्येकपरिहाराकारोदाहरणद्वयमुचितमेव तथापि किंचिद्विशेषं विवक्षन्नाक्षिप्य समाधत्ते—नन्विति । मा भूदत्रासमासोऽन्यथापि नेदमुदाहरणमिह संगतमित्याह—न केवलमिति । तत्किमनुप्रास एवायं न भवतीति पृच्छति—केन तर्हीति । उत्तरम्—पदानुप्रासेनेति । पदानुप्रासेनार्थभेदाभेदौ विवक्षितौ । किंतु पदाश्रयेणावृत्तिमात्रं पदानुप्रासावृत्तिश्च लाटानुप्रासेऽप्यस्तीति संगत्यात्रेदमुदाहृतमित्यर्थः ॥

समस्तोऽनेकगुणो यथा—

‘ब्रह्माण्डच्छत्रदण्डः शतधृतिभुवनाम्भोरुहो नालदण्डः क्षोणीनौकूपदण्डः क्षरदमरसरित्पट्टिकाकेतुदण्डः ।
ज्योतिश्चक्राक्षदण्डस्त्रिभुवनविजयस्तम्भदण्डोऽङ्घ्रिदण्डः श्रेयस्त्रैविक्रमस्ते वितरतु विबुधद्वेषिणां कालदण्डः ॥ २५० ॥’

अत्रानेकशो दण्ड इत्यस्यावृत्तिः । आभ्यां व्यस्तसमस्तभेदोऽपि व्याख्यातः । यथा—