153 पयोधरा मेघाः स्तनौ च । तदेतस्मिन् द्रुतविलम्बिताख्ये वृत्ते समाख्यैव रूपं बोधयतीति ॥

द्रुतमध्या यथा—

‘अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्ष्यीचकार ।
सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः ॥ १७ ॥’

सेयं द्रुताया मध्यायाश्च गतेरन्तरानुप्रवेशाद्द्रुतमध्या गतिः ॥

अपि तुरगेति । उत्पन्नाविर्भवद्बर्हगतोज्ज्वलविचित्रकोमलमयूरस्तत्कालमव्याजप्रेमनिर्यन्त्रणकण्ठग्रहविलुलितप्रियाकेशपाशवासनाविकासहेतुः सर्वस्वायमानः कथं बाणलक्ष्यतां सहत इति च्विप्रत्ययेन व्यज्यत इति । अत्र पादचतुष्केऽपि प्रथमं द्रुता पश्चान्मध्या च भागशः प्रत्यभिज्ञायत इत्याह—सेयमिति ॥

मध्यविलम्बिता यथा—

‘दुन्दुभयो दिवि दध्वनुरुच्चैरुच्चकराः कपयश्च ववल्गुः ।
सिद्धनिकायकराब्जविमुक्तं माल्यमथाङ्गदमूर्ध्नि पपात ॥ १८ ॥’

सेयं मध्याया विलम्बितायाश्च गतेरन्तरानुप्रवेशान्मध्यविलम्बिता गतिः ॥

दुन्दुभय इति । अत्रापि प्रतिपादं पूर्वं मध्या ततो विलम्बिता च खण्डशः प्रतिभासत इति दर्शयति—सेयमिति ।

एवमर्धसमविषमयोर्मात्राच्छन्दःसु गद्यमिश्रयोर्लघुगुरून्मिश्रवर्णविन्यासविशेषभूयस्त्वेन द्रुतादिगतयो गवेषणीयाः ॥

एवमिति ।इमामेव व्यवस्थामर्धमध्यमादिष्वप्यतिदिश्यत इति दिङ्मात्रमुदाहरति—

तत्र विषमवृत्तच्छन्दसि द्रुता यथा—

‘अथ वासवस्य वचनेन रुचिरवदनस्त्रिलोचनम् ।
क्लान्तिरहितमभिराधयितुं विधिवत्तपांसि विदधे धनंजयः ॥ १९ ॥’