अत्र प्रातिलोम्येनापरः श्लोको भवति । यथा—
वाहनेति । ततोऽनन्तरं वाहना सेनाऽनमा नतिशून्याजनि जाता । साराजावुत्कृष्टसङ्ग्रामे मानासे परमानक्षेपके मत्ताः सारगाः सोत्कर्षगतिशालिनो राजेभा राजदन्तिनो यत्र । भारिणः स्वामिनार्पितसमरभराः अत एव यथोचितचेष्टावन्तस्तेषां जनानां ध्वनिः सिंहनादो यत्रेति क्रियाविशेषणमित्यनुलोमश्लोकार्थः । निध्वनन्तः स्तनन्तो जवेन वेगेन हारिण इभा यत्र । ततो विस्तीर्णो मानवजारासः सैनिककृत आरावः कोलाहलो यत्र । मानिजनानां साहंकाराणां वीराणामाहवो द्वन्द्वयुद्धं यत्र । ईदृशी सेना रागरसात्परलक्ष्मीहरणरसेन तमो भेजे क्रोधमवापेति प्रतिलोमश्लोकार्थः ॥
भाषान्तरगतं यथा—
अत्र प्रातिलोम्येनापरः प्राकृतश्लोको भवति । यथा—
इह रे इत्यादि । लासे नृत्ये बहला असंकुचिता राहुमलीमसा श्यामा सालका भ्रूकर्णादिपरभागार्पकचूर्णकुन्तलवती रसाच्छृङ्गाराल्लीला यस्याः सा, तथा तुङ्गा उच्चव्यवहारा एवंविधा सा बाला हे चतुःषष्टिकलारत, अलालि लालिता त्वयेति संस्कृतश्लोकार्थः । कला गीतवाद्यनृत्यानां संकरीकरणसहिता पटीयसी गातुं तरला त्वरिता सालाली नानावृक्षपङ्क्तिस्तदीयेन सरकेण मधुना अलसा । श्यामा मधुरालापा सेला उत्तमा नारी । ‘सेला स्यादुत्तमा नारी’ इति देशीकोशे । सह इरया मदिरया वर्तन्ते सेला वा । रलयोरेकत्वस्मरणादिति केचित्, तच्चिन्त्यम् । अला भूषयित्री । हव धवेति संबोधनम् । रेहइ राजते । प्राकृतश्लोकार्थः । एवं भाषान्तराणामपि गतप्रत्यागती बोद्धव्ये ॥