स्कन्दः कार्तिकेयः । रुन्दां विपुलाम् । दारिते शत्रुसमूहे सस्पन्दः स्फुरद्रूपो मन्दः स्वस्थचित्तः भवभयस्य संसारत्रासस्य कलने क्षेपणे इहजने मर्त्यलोके संदोहेन य उल्लाघः सामर्थ्यं नीरोगत्वात्तेन लसनशीलः । बलिनां हन्ता । चण्डतायास्तैक्ष्ण्यस्य भूराश्रयः । अखर्वः सर्वेषामुपरि वर्तमानः । देवौजसां राज्ञां खण्डयित्री ईहा चेष्टा यत्र तादृशे महिम्नि निरतः ॥