290
यतिविच्छेदिनी ह्येषा श्लोकधेनुरनुत्तमा ।
छन्दोभेदाच्छतमियं प्रसूते श्लोकतर्णकान् ॥ ११७ ॥

वन्द्येति । वरेण देवताप्रसादेन चरितो निरर्गलप्रसरो गुणानामाश्रयो लटभं मनोज्ञं च ललितं विलासो यस्याः सा तथा । यतिविच्छेदिनीति । अत्र करणम्—‘प्रतिलोमं विनिक्षेप्यमनुलोममधः क्षिपेत् । स्थितेनागन्तुकं हन्यादीप्सितेन विभाजयेत् ॥’ स्थितं प्रतिलोममागन्तुकं क्रमविन्यस्तमीप्सितं हि प्रतिलोमस्य क्रमेण फलं गुणकारस्तथैवानुलोमं भागहारः । अनेन क्रमेणैकैकयतियोजने सप्त श्लोकाः । यतिद्विकयोजने चैकविंशतिः । यतित्रिकयोजने च पञ्चत्रिंशत् । यतिचतुष्कयोजनेऽपि तावन्त एव । यतिपञ्चकयोजने पुनरेकविंशतिः । षड्यतियोजने सप्त । सप्तयतियोजने त्वेकः । सर्वमेलनेन च सप्तविंशत्यधिकं शतम् । अत्र च क्रियाहीनत्वेन कारकविहीनत्वेन च पदावयववत्तया पदावयवमात्रत्वेन च निरर्थकान् षड्विंशतिमपास्य श्लोकधेनुरेकैव वृत्तभेदेन शतं श्लोकतर्णकान्प्रसूते । तथाहि । प्रथमद्वितीयचतुर्थीभिर्यतिभिरत्युक्ता जातिः । तृतीयपञ्चमीभ्यां सुप्रतिष्ठा । षष्ठ्या गायत्री । सप्तम्या चोष्णिगिति । एकगणनायां वृत्तभेदः । एवं द्विकादिगणनेऽपि गवेषणीयम् ॥

सहस्रधेनुर्यथा—

‘नखमुखपाणिकण्ठचिकुरैर्गतिभिः सहसा स्मितेन ललितेषु दृशा मणिशशिपद्मकम्बुचमराः करिणः सुतनोः सुधा च हसिता हरिणाः ।
फणिगणसिद्धसाध्यदयिता न समाः सकलास्त्वया च खभुवच्छलिताः तव बलदर्परूपविजिता नितरां विबुधाश्चिराय चतुरैश्चरितैः ३४०’
पदविच्छेदिनी ह्येषा श्लोकधेनुरनुत्तमा ।
छन्दोभेदाद्दशशतं प्रसूते श्लोकतर्णकान् ॥ ११८ ॥

नखेति । हे ललिते गौरि, तव शोभनया दृशा सुतनोः शोभनस्य शरीरस्य । साध्या देवविशेषाः खभुवो ग्रहताराद्याः ( राप्यत इति राप्यम् । ‘आसुवपिरपित्रपिचमश्च’ इति रापतिभाषितमित्यर्थः ।) दर्येति पाठेन वा योजनीयम् । पदविच्छेदिनीति । पदान्यत्र प्रतिपादं सुधाकलशाभिधाने छन्दसि षड् विभज्यन्ते । यद्यपि द्वितीयतृतीयपादयोश्चकाराभ्यां नकारेण चतुर्थपादे तवेति