297
जानामि सत्यमनुमानत एव स त्व- मित्थं गिरो गिरिभुवः कुटिला जयन्ति ॥ ३४८ ॥’

सेयमावाक्यपरिसमाप्तेर्निर्वाहान्निर्व्यूढेति वक्रोक्तिर्वाकोवाक्यम् ॥

अनिर्व्यूढा यथा—

‘केयं मूर्ध्न्यन्धकारे तिमिरमिह कुतः सुभ्रु कान्तेन्दुयुक्ते कान्ताप्यत्रैव कामिन्ननु भवति मया पृष्टमेतावदेव ।
नाहं द्वन्द्वं करोमि व्यपनय शिरसस्तूर्णमेनामिदानी- मेवं प्रोक्तो भवान्या प्रतिवचनजडः पातु वो मन्मथारिः ॥ ३४९ ॥’

सेयमनिर्वाहादनिर्व्यूढेति वक्रोक्तिर्नाम वाकोवाक्यम् । ते इमे उभे अपि श्लेषवक्रोक्तिर्नाम वाकोवाक्यम् ॥

वैयात्योक्तिर्द्विधा । स्वाभाविकी नैमित्तिकी चेति । तयोः स्वाभाविकी यथा—

‘नादेयं किमिदं जलं घटगतं नादेयमेवोच्यते सत्यं नाम पिबामि कत्यपतृषः पीतेन नाम्नाभवन् ।
किं वर्णा अपि सन्ति नाम्नि रहितं किं तैरलं त्वं कुतो यस्मादेव भवान्भगिन्यसि ततस्तेनैव मां बाधसे ॥ ३५० ॥’

अत्र स्वैरिण्याः सहजाद्वैयात्यात्स्वाभाविकीयं वैयात्योक्तिर्नाम वाकोवाक्यम् ॥

नैमित्तिकी यथा—

‘कुशलं राधे, सुखितोऽसि कंस कंसः क्व नु सा राधा ।
इति पारीप्रतिवचनैर्विलक्षहासो हरिर्जयति ॥ ३५१ ॥’

अत्र गोत्रस्खलिते विपक्षनाम्नैव वैयात्येनोत्तरं दत्तमिति नैमित्तिकीयं वैयात्योक्तिर्वाकोवाक्यम् ॥