301

इत्यनेन श्लोकेनोक्तार्थस्य यथास्थितस्वरानुस्वारविसर्जनीयसंयोगस्य श्लोकोत्तरस्य बिन्दुभिरेव सूचनाक्रम इति बिन्दुमती । तद्यथा—

‘ु॰ाु॰ााा ंुे ंुे ॰ः ।
ा॰े ा॰े ििः ॰॰॰ ॰॰ ी॰ः ॥’

निर्भेदः ।

‘उदधावुदधावाज्ञा संयुगे संयुगे जयः ।
साहसे साहसे सिद्धिः सर्वत्र तव कीर्तयः ॥ ३६४ ॥

अर्थप्रहेलिका यथा—

‘उत्तप्तकाञ्चनाभासं संदष्टदशनच्छदम् ।
सरसं चुम्ब्यते हृष्टैर्वृद्धैरपि किमुज्ज्वलम् ॥ ३६५ ॥’

सेयमपि सूचितस्यैव पक्वाम्रफलमित्यस्य व्द्यर्थपदप्रयोगेणावगतेरर्थप्रहेलिका ॥

क्रियाकारकसंबन्धे पदाभिप्रायवस्तुभिः ।
गोपितैः षड्विधं प्राहुर्गूढं गूढार्थवेदिनः ॥ १३५ ॥

तेषु क्रियागुप्तं यथा—

‘स्तनजघनभराभिराममन्दं गमनमिदं मदिरारुणेक्षणायाः ।
कथमिव सहसा विलोकयन्तो मदनशरज्वरजर्जरा युवानः ॥ ३६६ ॥’

अत्र जघनभराभिराममन्दं मदिरेक्षणाया गमनमवलोकयन्तो हे युवानः, कथमिव यूयं मदनशरज्वरजर्जरा न स्थेति क्रियापदस्य स्तनशब्देन जघनसांनिध्याद्गोपितेन क्रियागूढमिदम् ॥

कारकगुप्तं यथा—

‘पिबतस्ते शरावेण वारि कह्लारशीतलम् ।
केनेमौ दुर्विदग्धेन हृदये विनिवेशितौ ॥ ३६७ ॥’

अत्र शराविति कर्मकारकस्य गूढत्वात्कारकगूढमिदम् ॥