303
अन्तःप्रश्नबहिःप्रश्नबहिरन्तःसमाह्वयैः ।
जातिपृष्टोत्तराभिख्यैः प्रश्नैस्तदपि षड्विधम् ॥ १३७ ॥

तेष्वन्तःप्रश्नं यथा—

‘काहमस्मि गुहा वक्ति प्रश्नेऽमुष्मिन्किमुत्तरम् ।
कथमुक्तं न जानासि कदर्थयसि यत्सखे ॥ ३७२ ॥’

अत्र ‘कदर्थयसि’ इति पदं कथमुक्तं रेफयकारयुक्तं दर्थयसीति, अतो वाक्यान्तरे प्रश्नोत्तरस्योक्तत्वादन्तःप्रश्नमिदम् ॥

बहिःप्रश्नं यथा—

‘भद्र माणवकाख्याहि कीदृशः खलु ते पिता ।
वेलान्दोलितकल्लोलः कीदृशश्च महोदधिः ॥ ३७३ ॥’

अत्र ‘मज्जन्मकरः’ इत्यस्योत्तरस्य प्रश्नाद्बहिरुक्तत्वाद्बहिःप्रश्नमिदम् ॥

बहिरन्तःप्रश्नं यथा—

‘सुभद्रां क उपायंस्त प्रश्नेऽमुष्मिन्य उत्तरः ।
स कीदृक्कपिमाचष्टे व्योम्नि पूर्णस्थितिः कुतः ॥ ३७४ ॥’

अत्र ‘वायुतः’ इत्युत्तरेण प्रश्नाद्बहिरुक्तेन वायुतो नरो वानरो भवति, सुभद्रोपयन्ताप्युच्यते । तेनैतद्बहिरन्तःप्रश्नं भवति ॥

जातिप्रश्नं यथा—

‘कीदृशा भूमिभागेन राजा स्नातोऽनुमीयते ।
प्राङ्गणं कुरुतेत्युक्ताः किमाहुस्तदनिच्छवः ॥ ३७५ ॥

'हैमवार करञ्जिना’ ‘नाजिरं करवामहै’ इत्युत्तराभ्यां गतप्रत्यागताभ्यां प्रश्नोत्तरजातिरभिधीयते । तेन जातिप्रश्नमिदम् ॥

पृष्टप्रश्नं यथा—

‘को सो जोअणवाओ को दण्डाणं दुवे सहस्साइं ।
का काली का मधुरा किं शुकपृथुकाननच्छायम् ॥ ३७६ ॥’