309
मण्डलेन तु यत्स्त्रीणां नृत्यं हल्लीसकं तु तत् ।
तत्र नेता भवेदेको गोपस्त्रीणां हरिर्यथा ॥ १५६ ॥

हल्लीसकमिदम् ॥

रासो यथा—

‘अइ दुम्मणआ अज्ज किणो पुच्छामि तुमम् ।
जेण जिविज्जइ जेण विलासो पलिहिज्जइ कीस जणो ३९५
[अयि दुर्मनस्क अद्य किं नो पृच्छामि त्वाम् ।
येन जीव्यते येन विलासः परिह्रियते किमिति जनः ॥]

तदिदं हल्लीसकमेव तालबन्धविशेषयुक्तं रास एवेत्युच्यते ॥

अङ्गवाक्सत्वजाहार्यः सामान्यश्चित्र इत्यमी ।
षट् चित्राभिनयास्तद्वदभिनेयं वचो विदुः ॥ १५७ ॥

तेष्वाङ्गिकाभिनयवद्यथा—

‘दोर्दण्डाः क्व धृताङ्गदाः क्व नु शिरानद्धौ भुजौ द्वाविमौ वक्राणि क्व नु कान्तिमन्ति बलिमत्क्वेदं ममैकं मुखम् ।
वाचस्ताः क्व जितार्णवध्वनिघनाः क्वायं वचःसंयमो हेलाकम्पितभूधरः क्व चरणन्यासः क्व मन्दा गतिः ३९६’

अत्राङ्गिकाभिनयानां प्रतिपादितत्वादिदमाङ्गिकाभिनयम् ॥

वाचिकाभिनयवद्यथा—

‘दुर्वारां मदनशरव्यथां वहन्त्या तन्वङ्ग्या यदभिहितं पुरः सखीनाम् ।
तद्भूयः शिशुशुकशारिकाभिरुक्तं धन्यानां श्रवणपथातिथित्वमेति ॥ ३९७ ॥’

अत्र वाचिकाभिनयप्रतिपादनादिदं वाचिकाभिनयम् ॥