वैदर्भादीति । गुणवत्पदरचना रीतिः । गुणाः श्र्लेषादयः काव्याव्यभिचारिणो नव । तेषामन्योन्यमीलनक्षमतया पानकरस इव, गुडमरिचादीनां खाडव इव मधुराम्लादीनां यत्संमूर्च्छनरूपावस्थान्तरगमनं तत्संस्कारादेव हि लोकशास्त्रपदरचनातः काव्यरूपा च रचना व्यावर्तते । अत एव मृग्यते कविभिरासंसारमिति मार्गपदेनोच्यते । वैदर्भादयो विदर्भादिदेशप्रभवास्तैः कृतमुखहेवाकगोचरतया प्रकटितो न तु तत्तद्देशैः काव्यस्य किंचिदुपक्रियते ॥ पन्था इति । प्रतिष्ठन्ते हि महाकविपदवीलाभार्थिन इति । ईदृशमेव रीतिलक्षणमानन्दवर्धनादीनामपि मतम् । एतदुपलक्षणतया सूत्रं व्याख्यातम् । कथं पुनरुक्तमुपमादे रीतिपदं प्रवृत्तमित्यत आह—रीङ् गताविति । रियन्ते परम्परया गच्छन्त्यनयेति करणसाधनोऽयं रीतिशब्दो मार्गपर्याय इत्यर्थः ॥

एवं सिद्धे सामान्यलक्षणे विभागमाह—