162

उत्तिष्ठन्त्या इति । सर्वाङ्गीणाश्लेषसमुत्सुके प्रियतमे बहिर्व्यावर्तनमन्तरनुवर्तनं च मुग्धाङ्गनाजातिरिति न्यायेन नीवीबन्धकेशपाशसंयमार्थिन्या निर्भरकेलिखेदेन भुजलतालसं लसत्येव न तु व्यापारयितुमपि शक्येति तत्कालिकोऽतिपोषः । अत्र मसृणेऽपि रसे वृत्त्यौचित्येन संदर्भस्य प्रौढिरुचितैव । दीर्घसमासो हि श्रृङ्गारादौ निषिद्धो न तु प्रौढिः । रेफहकारादिवर्णनिवेशात्तु कोमलता संदर्भस्येति । एवमुत्तरोदाहरणेष्वपि विशेषः स्वयमूहनीय इति ॥

सात्त्वती यथा—

‘वन्द्यौ द्वावपि तावनार्यचरितप्राप्तप्रतापोदयौ भीमो भीमपराक्रमः स च मुनिर्भास्वत्कुण्ठारायुधः ।
एकेनामृतवद्विदार्य करजैः पीतान्यसृञ्जि द्विषामन्येनापि हताहितास्रसरसि स्नातं क्रुधः शान्तये ॥ ३४ ॥’

सेयं प्रौढार्था नातिप्रौढसंदर्भा सात्त्वती नाम वृत्तिः ॥

मध्यमकैशिकी यथा—

‘किं द्वारि दैवहतके 119सहकारकेण संवर्धितेन विषपादप एष पापः ।
अस्मिन्मनागपि विकासविकारभाजि भीमा भवन्ति मदनज्वरसंनिपाताः ॥ ३५ ॥’

सेयं सुकुमारेऽर्थे प्रौढसंदर्भा मध्यमकैशिकी नाम वृत्तिः ॥

मध्यमारभटी यथा—

‘त्वं नागराज बहुमस्य नितम्बभागं भोगेन गाढमुपवेष्टय मन्दराद्रेः ।
सोढाऽविषह्यवृषवाहनयोगलीलापर्यङ्कबन्धनविधेस्तव कोऽतिभारः ॥ ३६ ॥’

सेयं प्रौढेऽर्थे सुकुमारसंदर्भा मध्यमारभटी नाम वृत्तिः ॥

  1. ‘आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः’ इत्यमरः