140
क्षेत्रमध्यं विशालाक्षी यस्याधिवसति प्रिया ।
अविमुक्तप्रतिष्ठाय तस्मै कामद्रुहे नमः ॥
आद्यं स्फुरतु वाग्देव्याः कण्ठाभरणकौतुकम् ।
मयि प्रह्वमनोवृत्तौ तन्वाने रत्नदर्पणम् ॥

एवं दोषगुणेषु निर्णीतेष्वलंकाराः प्राप्तावसरास्तत्रालंकारसामान्यलक्षणमाद्यपरिच्छेदे तद्विभागं दर्शयन्परिच्छेदत्रयं संगमयति—

शब्दार्थोभयसंज्ञाभिरलंकारान्कवीश्वराः ।
बाह्यानाभ्यन्तरान्बाह्याभ्यन्तरांश्चानुशासति ॥ १ ॥

शब्दार्थोभयसंज्ञाभिरिति । इत्थंभूतलक्षणे तृतीया । मध्यमपदलोपीसमासः । तेन शब्दालंकारार्थालंकारोभयालंकारसंज्ञाभिरित्यर्थः । गुणप्रस्तावे बाह्यत्वादिकं विवृतं शब्दोऽवच्छेदकतया प्रथमप्रतिसंधेयभावेन च शरीरस्थानीयो बाह्यस्ततस्तदाश्रया अलंकारा अपि बाह्याः । अर्थो विच्छेद्यतया पश्चादनुसंधेयतया चात्मतुल्य आभ्यन्तरस्तेन तदाश्रया अलंकारा अप्याभ्यन्तराः । एतेन बाह्याभ्यन्तरा व्याख्याताः । आश्रयाश्रयिभावश्च यथातथोक्तमेव । उभयालंकारेषु योगस्य प्रायिकत्वमाश्रित्य कवीश्वराणामनुशासनमुक्तम् । एतद्विवेचयिष्यते चतुर्थारम्भे ॥