अत्र काव्यचतुष्कादुच्छिद्य पादचतुष्टयं ग्रथितमिति खण्डसंघात्यनामायं योनिजकाव्यभेदः ॥
तावन्तमर्थमुपादायाधिको वापश्चूलिका । यथा—
यथा च—
अत्र स्थाने स्थानेऽधिकावापस्य प्रत्यभिज्ञानाच्चूलिकानामायं योनिजकाव्यभेदः ॥ बन्धच्छायामात्रसंवादी परिमलः । यथा—
यथा च—
अत्र संदर्भच्छायामात्रमनुकृतमिति परिमलनामायं योनिजकाव्यभेदः ॥
तासु लोकोक्तिच्छाया यथा—
सेयं लोचने मीलयित्वेति लोकोक्तेरनुकृतिर्लोकोक्तिच्छाया ॥
शापान्त इति । लोचने मीलयित्वेत्यनेन लोकोक्त्यनुकारेण नयननिमीलनवदाशुभाविता समागमसमयस्य प्रतिपाद्यते । तथा च—सुकुमारतरकान्ताजी