शापान्त इति । लोचने मीलयित्वेत्यनेन लोकोक्त्यनुकारेण नयननिमीलनवदाशुभाविता समागमसमयस्य प्रतिपाद्यते । तथा च—सुकुमारतरकान्ताजी165 विताध्यवसायाभिप्रायः प्रवासविप्रलम्भाविष्टचेतसः प्रकाशितो भवतीति । उपलक्षणं चैतत् । वर्षाकाले चतुरो मासानित्यपि लोकोक्तिरेव ॥