169 विकरणः । आत्मनेपदपरस्मैपदयोरेकान्तरितो निवेशः । श्रिय इति प्रकृतिभागे इयङादेशो विकारो विभक्तावपि विकारः । विपद इति प्रकृतिरविकृता । विभक्तिस्तु रुत्वेन विकृता । यशांसीति द्वे अपि विकृते । मलिनमिति वैकल्पिकपरसवर्णविधौ द्वयमविकृतम् । संस्कारशौचेनेति प्रकृतिरविकृता । प्रत्ययस्त्विनादेशेन विकृतः । तथा श्रिय इति माङ्गल्यम्, विपद इति विपरीतमिति क्रमेण शुद्धा बुद्धिः कामधेनुरिति । मङ्गलपरम्परानिवेशनेनोपसंहारश्चित्रांशुकोज्ज्वल इव प्रतिभासमानो नु बिम्बमिव कामपि कान्तिमभिव्यञ्जयत्तूपलक्ष्यते । मङ्गलामङ्गलार्थपदपरत्वेनेति । मङ्गलामङ्गलेभ्यः पदेभ्यः परवर्तित्वेनेत्यर्थः ॥

वचनमुद्रा यथा—

‘विश्वभरा भगवती भवतीमसूत राजा प्रजापतिसमो जनकः पिता ते ।
तेषां वधूस्त्वमसि नन्दिनि पार्थिवानां येषां कुलेषु सविता च गुरुर्वयं च ॥ ४६ ॥’

अत्र वयमित्यात्मनि बहुवचनेन सविता चेति सवितर्येकवचनेन सवितुरप्यहं बहुमत इत्यभिप्रायो वक्तुरितीयं वचनमुद्रा ॥

विश्वंभरेति । अहंकारप्ररोहस्य पूर्वं गुणप्रयोजकत्वमुक्तम् । इह तु कवेरभिप्रायविशेषस्यालंकारघटकतेति विभागः ॥

समुच्चयमुद्रा यथा—

‘जातश्चायं मुखेन्दुस्ते भ्रुकुटिप्रणयी पुरः ।
गतं च वसुदेवस्य कुलं नामावशेषताम् ॥ ४७ ॥’

अत्र ‘आशंसायां भूतवच्च’ (३।३।१३२) इति भूतवद्भावस्य हयग्रीवप्रभावातिशयशंसिनः समुच्चयद्वारेण निवेशादियं समुच्चयमुद्रा ॥

अत्राशंसायामिति । गतमिति निष्ठाप्रत्ययेन भूतताद्योतनादाशंसाप्रतीतावपि कथं प्रकृतपोष इत्यत उक्तम्—समुच्चयद्वारेणेति । तेन हि तुल्यकक्षताप्रतीतौ त्वं चेदङ्गीकृतरोषस्तदा सिद्धमेव समीहितमिति वक्तुरध्यवसायविशेषप्रर्तीतौ समुच्चय एव मुद्रापदवीमारोहतीति । शेषं सुबोधम् ॥